________________
१६०
काव्यमाला |
अधिजलमधिकुङ्कुमं बभौ करधृतमङ्गनया स्तनद्वयम् । कनककलशयुग्ममम्भसि स्मरमभिषेक्तुमिवावतारितम् ॥ ३९ ॥
अधीति ।। अङ्गनया करधृतं हस्ते धृतमधिकुङ्कुमं प्रचुरकुङ्कुमचर्चितं स्तनद्वयं कुचयुगमधिजलं जलमध्ये । स्मरमभिषेक्तमम्भस्यवतारितं कनककलशयुग्ममिव । बभौ ॥ करतलपिहितं प्रियाननं प्रियमृदुसिक्तविषक्तशीकरम् । मुकुलितमिव पद्ममुलसद्विरलतुषारजलं व्यराजत ॥ ४० ॥
करतेति ॥ प्रियमृदुसिक्तविषक्तशीकरं प्रियेण मृदु यथा स्यात्तथा पूर्व सिक्ता पश्चाद्विषक्ताः शीकरा जलकणा यत्र तत् करतलपिहितं हस्ततलप्रच्छादितं प्रियाननं कान्तान - नम् । उल्लसद्विरलतुषारजलं मुकुलितं पद्ममिव । व्यराजत ॥
निचितमलकमल्पमौक्तिकग्रथितमिवाम्बुकणैर्नतभ्रुवः ।
नयनबहलपक्ष्म चारुचत्प्रणयजबाष्पविशङ्कितप्रियम् ॥ ४१ ॥
निचितेति ॥ नतभ्रुवो निचितं संभृतमलकमम्बुकणैरल्पमौक्तिकग्रथितमिव च पुनर्नय - नबहलपक्ष्म प्रणयजबाष्पविशङ्कितप्रियं स्नेहोद्भवाश्रु विशङ्कितवल्लभं सदरुचद् बभौ ॥
किमु विलुलितकुङ्कुमावलि किमधिकुचं नखरक्षतं नवम् । विमतिरिति विपक्ष सेवनेन च कुपितोऽकुपितोऽबलाजनः ॥ ४२ ॥ किमिति ॥ अबलाजनोऽकुपितोऽप्यधिकुचं कुचयोरुपरि विलुलितकुङ्कुमावलि किमु तथा नवं नखरक्षतं किम् इति विमतिः शङ्कितमना विपक्षसेवनेन कुपितोऽभूत् ॥ सपदि न तदवेयुषी वधूरधिदयितायतबाहु विलुता ।
रमणसलिलयोः किमीयतः पुलकितमङ्गमिति प्रसङ्गतः ॥ ४३ ॥
सपदीति । वधूरधिदयितायतबाहु दयितस्यायतबाहोरुपरि विप्लुता तरन्ती सती सपदि शीघ्रं रमणसलिलयोर्मध्ये किमीयतः कस्य प्रसङ्गतस्तदङ्गं पुलकितमिति नावेयुषी ज्ञातवती ॥ परिहृषितमुखं कुचद्वयं दधदधरेऽपि बभूव पाण्डुता ।
श्लथितमथ विलेपनाञ्जनं निधुवनमन्वहरज्जलप्लवः ॥ ४४ ॥
परीति ॥ कुचद्वयं परिहृषितमुखं रोमाञ्चकञ्चुकिताननं दधदस्ति, अधरेऽपि पाण्डुता ताम्बूलविरो बभूव विलेपनाञ्जनं लयं शिथिलं जातम् । तथा च जलप्लवो जलतरणं निधुवनं सुरतमन्वहरदन्वकरोत् ॥
जलपरिचयैरुत्सूत्रत्वं गतः परिघट्टितः
शिथिलितगुणो मुक्ताहारोऽप्यधोगतिमागतः ।