________________
१५ सर्गः ]
द्विसंधानम् ।
चटुलललना कण्ठासक्तेष्वहो किमु संयमः किमनशनतावासस्तेषां ध्रुवं विलयः पुनः ॥ ४९ ॥
जलेति ॥ जलपरिचयैर्वार्यनुशीलनै: । डलयोरभेदात् । जडानामज्ञाततत्त्वानां परिचयैः संसर्गैर्वा । परिघट्टितो विलुलितः, स्ववासनावासितश्च । अत एव शिथिलितगुणः श्लथितडवरकः, गलितज्ञानाभ्यासश्च । अत एव उत्सूत्रत्वं सूत्रस्यूतत्वाभावम्, शास्त्राभावं वा । गतः प्राप्तः । मुक्ताहारो मौक्तिकमाला, मुक्त आहारो येन तादृक्तपस्वी वा । अधोगतिं नीचैर्देशपतनं नरकं वा । युक्तमेतत् । अहो चटुलललनाकण्ठासक्तेषु चपलाङ्गनागलालिङ्गनरसिकेषु संयमो नियन्त्रणम्, आजन्मत्रतपरिग्रहो वा । किं स्यात् । अपितु न । तेपां चपलाङ्गनागलालिङ्गकानां किम् । अनशनतावासो न नशनताया अदर्शनताया वासः, अर्थात्स्थावरत्वम् । अनशनता भ्रष्टाहारः वासो वस्त्रं च । संभाव्यते । अपि तु ध्रुवं निश्चयेन पुनर्विलयो नाशः संसारसंसरणं वा भवति ॥ हरिणीवृत्तम् ॥
कान्तोन्नतस्तननितम्बनिपीडनेन
प्राप्तं प्रवक्तुमिव भोगमगादगाधम् ।
मध्येजलं तटजलं जलवृत्तयोऽल्पे
धावन्ति हि श्रियमुदीरयितुं महद्भ्यः ॥ ४६ ॥
कान्तेति ॥ तजलं कर्ट, अगाधं मध्येजलं कर्म, कान्तोन्नतस्तननितम्बनिपीडनेन प्रियाया उन्नतस्तननितम्बजन्यपीडया, प्राप्तं भोगं वक्तुमिव, अगात् । हि यतः अल्पे स्तोकास्तुच्छा वा, जलवृत्तयः स्वच्छवृत्तयः जडवृत्तयः मूर्खा वा महद्भयः सत्पुरुषेभ्यो महाजडेभ्यो वा श्रियमुदीरयितुं धावन्ति ॥ वसन्ततिलकावृत्तम् ॥
२१
१६१
मध्यस्थवृत्तमपि वञ्चति नन्वगाधं
लोको दुरन्तमपि गच्छति गाहनीयम् । यद्गुल्फजानुजघनस्तनदन्नमेव
स्त्रैणं समागममयान्न पयो गभीरम् ॥ ४७ ॥
मध्येति ॥ ननु अहो लोको जनोऽगाधमतलस्पर्श, गभीराशयं वा । मध्यस्थवृत्तं मध्यस्थं वृत्तम्, मध्यस्थानां वृत्तं वा । वञ्चति त्यजति । दुरन्तं दुष्टमन्तं यस्य तद् दुष्टस्वरूपं वा गाहनीयं वृत्तं गच्छति । यद् यस्मात्कारणाद् गुल्फजानुजघनस्तनदघ्नमेव पयो नीरं स्त्रैणं स्त्रीसंबन्धिनं समागममयात् । न गभीरं पय इति ॥
स्रस्ताः स्रजः शिथिलितानि विलेपनानि संदर्शितानि च विपक्षनखक्षतानि ।