SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इत्यात्मदोषचकिता इव वेपमाना वेला वधूभिरभवन्क्षणदृष्टनष्टाः ॥ ४८ ॥ __सस्ता इति ॥ इत्येवंप्रकारेणात्मदोषचकिताः स्वकीयापराधभीता इव वेपमानाः कम्पमाना वेला वधूभिः क्षणदृष्टनष्टाः क्षणं पूर्व दृष्टा पश्चान्नष्टा अभवन् ॥ तथा वेषं तेषां कुसुमरचितं कुङ्कुमचितं दधानोदाराणां दिशिदिशि जनानां प्रियतमम् । चिरं चक्रे शङ्कामिव हृदि परासङ्गजननी नदीवाहो वेला त्वरितगतिरीशस्य सरिताम् ॥ ४९॥ तथेति ॥ तथा तेनैव प्रकारेण कुसुमरचितं कुङ्कुमचितं प्रियतमं वेषमलंकारं दधाना धरन्ती, सरितामीशस्य पत्युः समुद्रस्य वेला । त्वरितगतिस्त्वरिता गतिर्यस्यास्तादृग् नदीव उदाराणां तेषां जनानां हृदि परासङ्गजननीं परेषामासङ्गं जनयति तां शङ्कामिव । अहो आश्चर्ये चक्रे कृतवती ॥ भारतीये-वेषं दधानस्त्वरितगतिस्त्वरिता गतिर्यस्य सः, नदीवाहो गङ्गाप्रवाहः, वेलेव दाराणां स्त्रीणाम् । जनानां च ॥ शिखरिणी ॥ पुष्पं प्रवालमखिलं स्ववनस्य कोपा त्सर्वस्वमाहृतमुपाहरतीव भूयः । भूपा विहृत्य पयसि द्रुतमित्यपेयुः के वान्यदुत्सुकधियोऽन्यधनं जयन्तः ॥ ५० ॥ इति धनंजयकविविरचिते राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये धनंजयाङ्के जल क्रीडावर्णनं नाम पञ्चदशः सर्गः समाप्तः । पुष्पमिति ॥ भूपा राजानः पयसि स्ववनस्य स्वारण्यस्याहृतं भूपैरानीतं पुष्पं प्रवा. लमखिलं सर्वस्वं कोपादुपाहरत्याददतीव सति इति पूर्वोक्तप्रकारेण विहृत्य क्रीडित्वा द्रुतं शीघ्रमपेयुनिसृतवन्तः । अन्यधनं जयतोऽन्यदुत्सुकधियोऽप्यस्मिन्नुत्सुका धीर्येषां तादृशः के भवन्ति । न केऽपीत्यर्थः । रावणजरासंघधनं जेतुमागता न वनधनं जिगीषन्तीति भावः । वसन्ततिलकावृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसं. धानकाव्यटीकायां कुसुमावचयजलक्रीडानिरूपणो नाम पञ्चदशः सर्गः । ___ षोडशः सर्गः। ततः समीपे नवमस्य विष्णोः श्रुत्वा बलं संभ्रमदष्टमस्य । क्रुधा दशन्नोष्ठमरिं मनःस्थं गाढं जिघत्सन्निव संनिगृह्य ॥ १ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy