________________
१५ सर्गः ]
द्विसंधानम् ।
१५३
गाङ्गेति ॥ प्रतिजवैः प्रतिवेगैर्गा पृथिवीं गाहिता व्याप्तवन्तो जलपातशीता नीरपूरशीतलाः कच्छान्तरेषु जलप्रायान्तरेषु कृतपुष्पवासा विहितकुसुमामोदा वार्धा वार्धिभवा समुद्रोद्भवा मरुतो वायवोऽमुं बलाध्वपरिखेदं सैन्यस्य मार्गजं श्रमं विनिन्युः । विश्रमदाय विश्रामदं विश्वं संबन्धनं संबन्धो जयति सर्वोत्कर्षेण वर्तते । भारतीये - वार्धा जलकणधारिणो हिता गाङ्गा गङ्गाभवाः सैन्यमार्गश्रमं प्रतिजवैर्विनिन्युः ॥
इति श्रीदाधीच जातिकुद्दालोपनामक श्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां प्रयाणनिरूपणो नाम चतुर्दशः सर्गः ।
पञ्चदशः सर्गः । अथ वनमनुकूलमङ्गनाभिः समलयजाङ्कपयोधरोचिताभिः । सह गतिमृजुमन्थरां गताभिः सरति यदूर्जितनायका विजहुः ॥ १ ॥
अथेति ॥ अथानन्तरम्, ऊर्जितनायका ऊर्जितानां बलिनां नायकाः स्वामिनः कपयः सुग्रीवादयो यद् वनम् अनुकूलमप्रतिकूलमनुतटं वा सरति सक्रीडम् [आसीत् । तत्र ] समलयजां समेन लयेन 'लयः साम्यमुदाहृतम्' इति वचनात् साम्येन जाताम् ऋजुमन्थरामवक्रमन्दां गतिं गताभिर्धरोचिताभिर्धरायामुचिताभिः पृथ्वीमाणिक्यभूताभिरधरोचिताभिः सामुद्रिकलक्षणविशिष्टाधराभिरङ्गनाभिः सह विजहुर्विहृतवन्तः ॥ भारतीयेयदूर्जितनायका यदवश्च ते ऊर्जिता नायकाश्च यादवाः, समलयजाङ्कपयोधरोचिताभिर्मलयजन्यचिह्नसहितस्तनौ सुलक्षणौ यासां ताभिः, सरति सप्रीति यथा स्यात्तथा ॥ सर्गे - ऽस्मिन्पुष्पिताग्रावृत्तम् ॥
दिशि विदिशि परस्परं न दृष्टं विरचयता कुसुमोच्चयं जनेन ।
नच ददृशुररण्यजास्तदन्तं बहु किमु वेति निरूपितं न कैश्चित् ॥ २ ॥ दिशि वीति ॥ अरण्यजा: पुलिन्दादयस्तदन्तं वनमध्यं बहु किमु अल्पम् इति कैरपि न निरूपितम् ॥
पृथु विहितवता वनं विधात्रा चिरमुचितानुपभोग्य मेकयोग्यम् । ललितजनचितं कृतं कथंचित्परिहरतेव तदापदे श्रमं तम् ॥ ३ ॥
पृथ्विति ॥ चिरं बहुकालमुचितानुपभोग्यमुचितानां शिष्टानामनुपभोग्यमेकयोग्यमेकेषां क्रूरसत्त्वानां योग्यं पृथु विस्तीर्णे वनं विहितवता विधात्रा तदा तस्मिन्कालेऽपदेऽस्थाने तं श्रमं कथंचिन्महता कष्टेन परिहरता परित्याजयतेव इदं ललितजनचित्तं लडितं विलसितं जनानां चित्तं यत्र तद् वनं कृतम् ॥
प्रियमदइदमेतदित्यपूर्व प्रति जनताग्रगमेन तृप्तुमैच्छत् ।
यदि परिचितसाम्यतोऽन्यतोऽपि प्रतिविरतोऽस्ति न कस्य निर्वृतिः स्यात् प्रियेति ॥ जनता जनसमूहः, 'अदः प्रियम्, 'इदं प्रियम्,' 'एतत् प्रियम्' इत्येवंप्रकारे
२०