________________
१५२
काव्यमाला |
विचित्ररत्नप्रतिभाविशालं राजालयं राजकमभ्युपेत्य । रामाननालोकगतादराक्षं पार्थक्षतं रोद्धुमनोऽवतस्थे ॥ ३५ ॥
विचित्रेति ॥ विचित्ररत्नप्रतिभाविशालं विचित्राणां रत्नानां प्रतिभया स्फूर्त्या युता विशाला राजानो यत्र तत्, विचित्ररत्नं प्रतिभाविशालं वा । रामाननालोकगतादराक्ष रामस्य रामाणां रमणीयरमणीनां वा आननस्य आलोके प्रेक्षणे गतादरे प्राप्तादरे अक्षिणी यस्य तत्, राजकं राजसमूहः, विचित्ररत्नप्रतिभाविशालं विचित्ररत्नानां प्रतिभामवति तच्छील: शाल: प्राकारो यत्र तच्छीला शाला यत्र वा तं राजालयं रावणालयं जरासंधालयं वा अभ्युपेत्य पार्थक्षतं मार्गोत्पन्नायासजतीव्रतरखेदं पाण्डवक्षतं रोद्धुमनः सदवतस्थे ॥ पथः श्रमं नेतुमपेतभारैर्विगाह्य हस्तेन विमुक्तमम्भः ।
विशीर्यमाणं प्रति सूर्यमुद्यन्मुक्ताफलाकार मियाय नागैः ॥ २६ ॥
पथ इति ॥ अपेतभारैर्नागैः पथो मार्गस्य श्रमं नेतुमपाकर्तु विगाह्य आलोड्य, हस्तेन शुण्डया विमुक्तं समुत्सृष्टं प्रतिसूर्य सूर्याभिमुखम् उद्यदूर्ध्वं गच्छदम्भो जलं विशीर्यमाणं सन्मुक्ताफलाकारं मौक्तिकाकारम् इयाय जगाम ॥
पादद्घातविहितं चिरभागस्तद्भुवं क्षमयितुं प्रणमय्य ।
स्वं शिरोऽधिपदमश्वसमूहश्चाटुकार इव निलुठति स्म ॥ ३७ ॥ पादेति ॥ अश्वसमूहः चिरं बहुकालं पादघातविहितं तदागोऽपराधम् भुवं क्षमयितुं क्षमां कारयितुं स्वमात्मीयं शिरः अधिपदं पदयोरुपरि प्रणमध्य नामयित्वा चाटुकार इव निर्लुठति स्म ॥ स्वागतावृत्तम् ॥
तीरद्रुमेषु करिणः, पटमण्डपेषु
वाहाः, सुधाभवनभित्तिषु राजलोकाः । आवासमादिषत, दंपतयो गुहासु,
सर्वत्र पुण्यसहिताः सुखमावसन्ति ॥ ३८ ॥
तीरेति ॥ वसन्ततिलकावृत्तम् ॥
गाङ्गाहिताः प्रतिजवैर्जलपातशीताः कच्छान्तरेषु मरुतः कृतपुष्पवासाः ।
वार्धा बलाध्वपरिखेदममुं विनिन्युः
संबन्धनं जयति विश्रमदायि विश्वम् || ३९ ॥
इति धनंजय कविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये प्रयाणनिरूपणो नाम चतुर्दश सर्गः ।