________________
१३ सर्गः]
द्विसंधानम् । तीरोपान्तप्रहितनयनं हास्तिकं वारि तीर्ण ___ गन्तुं सेतुः कृत इव घटाबद्धमक्षौहिणीनाम् ॥ ३० ॥ तदिति ॥ वानेयद्विपमदमरुद्भान्तचित्तं वनभवगजसंबन्धिमदामोदितवायुभ्रमितचेतः, कथंचिदाकस्मिकाद् भूतावेशाबहावेशाद् भ्रमदिव आधोरणानां हस्तिपकानां शिरः धुन्वत् कम्पयत् , तीरोपान्तप्रहितनयनं तटसमीपप्रेरितलोचनं घटाबद्धं घटया युद्धघटनया आबद्धमायोजितम् , अक्षौहिणीनां हास्तिकं हस्तिसमूहः । गन्तुं कृतः सेतुरिव । वारि समुद्रजलम् तीर्णमुत्तीर्णवत् ॥ मन्दाक्रान्ता ॥ वाजी वायुमयं जवं जवमयं चित्तं स चेतोमयं
देहं बिभ्रदिवाखिलोऽपि चटुलोऽप्यारोटुरेवाशये । काये चैक्यमुपेयिवानिव वशादर्णः समुत्तीर्णवा
न्दम्यं नाम विवर्तते दमयितुः शीलेन कालान्तरे ॥ ३१ ॥ वाजीति॥ अखिलोऽपि चटुलश्चञ्चलोऽपि स वाजी ।जातावेकवचनम् । वायुमयं जवम् , जवमयं चित्तम्, चेतोमयं देहं बिभ्रदिव, आरोढुरेव वशादाशये काये चैक्यमुपेयिवान् इव, अर्णो जलं समुत्तीर्णवान् । नाम प्रसिद्धौ दम्यं वस्तु कालान्तरे दमयितु: शीलेन विवर्तते विपरिणमते ॥ शार्दूलविक्रीडितम् ॥ .
प्राप्तव्योमासङ्गमोघं रथानां सव्येष्टास्तेऽनादिचक्रभ्रमेण । मुक्ताशंसंसारपारं सुखं तं भव्यं सन्मार्गा इव मानयन्ति ॥ ३२ ॥ प्राप्तेति ॥ ते सव्येष्टाः सारथयः, प्राप्तव्योमासङ्गं प्राप्तो व्योम्न आकाशस्य आसङ्गः संबन्धो येन सारपारं सारो रेणूत्करो लोहं वा पारे पर्यन्ते यस्य तं भव्यं मनोहरं रथानाम् ओघं (मुख्यकर्म) सारपारं सारस्य जलस्य पारं परतीरं (गौणकर्म वा) मुक्ताशंसं मुक्तप्रशंसं यथा स्यात्तथा।सन्मार्गाः सम्यग्दर्शनज्ञानचारित्रलक्षणाः प्राप्तव्योमासङ्ग प्राप्तव्य उमया की| सङ्गो येन तं, मुक्ताशं त्यक्तवाञ्छं तम् भव्यं धर्मनिष्ठं जनं (मुख्यकर्म) संसारपारं भवतटं (गौणकर्म) इव । सुखं यथा स्यात्तथा आनयन्ति स्म । शालिनी ॥
कर्णश्रुतिं गच्छति तूर्यनादे ध्वजेषु दृष्टिं पुरतः स्पृशत्सु ।
मोहं गतानीव चिरं विजजुः कथंचिदात्मावसथं बलानि ॥ ३३ ॥ कर्णेति ॥ चिरं बहुतरकालेन । कथंचिन्महता कष्टेन ॥ उपजातिः ।।
तदेव गाम्भीर्यमदः प्रमाणमगाधता सैव तदायतिश्च । ___ चमूरशेषा विततानुकूलं सा नद्यधीनप्रतिमेव रेजे ॥ ३४ ॥
तदेवेति ॥ अनुकूलं यथाज्ञम् , प्रतितटम् । नद्यधीनप्रतिमा नद्यधीनस्य समुद्रस्य प्र. तिमा, नद्यधीना गङ्गैव प्रतिमा ।