________________
१५०
काव्यमाला।
_एवमिति ॥ सा पृतना सेना एतैर्नानाक्षत्रियवर्ग: सह एवमुक्तप्रकारेण अग्रे प्रथमं लङ्कान्तं लङ्कासमीपवर्तिनं वेलापातश्वेततरङ्गं तं जलराशिं समुद्रं रौप्यं रजतनिर्मितं शालं प्राकारमिव अवापत् । नृपती रामः सारं प्रधानं भोगाङ्गं पालनोपायम् अवापत् स्वीकृतवान् ॥ भारतीये-सा पृतना अलमतिशयेन कान्तं मनोहरं गाङ्गं गङ्गासंबन्धिनं जलराशि जलसमूहम् । सारम्भ आरम्भेण सहितो नृपतिश्च ॥ मत्तमयूरं वृत्तम् ।। चिरानवस्थाननियोगखिन्नमेकस्थमत्यायतमापगौघम् । यथाम्बुराशिं ध्वजिनीरजोभिः श्यामायमानं ददृशुर्बलानि ॥ २७ ॥ चिरेति ॥ बलानि सैन्यानि, ध्वजिनीरजोभिः सैन्यरेणूत्करैः, श्यामायमानमम्बुराशि समुद्रम् । चिरानवस्थाननियोगखिन्नं बहुतरकालपर्यटनव्यापारेण श्रान्तमेकस्थमेकत्रावस्थितम् अत्यायतं दीर्घतरमापगौघं सरित्समूहमिव । ददृशुः ॥ भारतीये-आपगौघं सरित्समूहसंभवमम्बुराशि जलसमूहमेकस्थमेकत्र विश्रान्तमिव ॥ उपजातिः ॥
दिक्षुराद्यन्तमिव प्रमाणं पूर्वापरं वा प्रथमाभिषङ्गात् ।
समुद्रतीरञ्जितसर्वलोका सेनापगां व्याप्तवती बलेन ॥ २८ ॥ दिदृक्षुरिति ॥ जितसर्वलोका सेना । प्रथमाभिषङ्गादाद्यन्तं पूर्वापरं वा प्रमाणं दिदृक्षुरिव गां पृथ्वीम् , व्याप्तवती सती, बलेन रामेण, समुद्रतीरमाप ॥ भारतीये-समुद्रतिमुंदि रत्या सहिता, रञ्जितसर्वलोका रञ्जितः सर्वो लोको यया सा, सेना, आपगां नदी, बलेन बलभद्रेण, व्याप्तवती ॥ उपजातिः ॥
समुद्रंहान्यायं विदधदहितस्यापिहितधीः ___स नीलाभोगङ्गां व्युदतरदवन्विष्णुरखिलम् । गतं खेलंकुर्वद्वलमपि तथा वानरमयं
रजस्त्वेकं चम्वाः सलिलधिनिषिद्धं निववृते ॥ २९ ॥ समुद्रमिति ॥ स विष्णुर्लक्ष्मणः, हा कष्टे अहितस्य शत्रोरपि हितधीः सन् न्यायं विदधत् कुर्वन् , गां पृथिवीम् अवंश्च सन् , नीलाभोगं नील आभोगो यस्य तं समुद्रं व्यु. दतरत् । तथा अखिलं वानरमयं बलमपि खे गगने अलंकुर्वत् गगनमार्गेण गतम् । एकं चम्वाः सेनाया रजस्तु सलिलधिनिषिद्धं सत् निववृते ॥ भारतीये-समुद्रहाः सह मुदा रंहो यस्य, यद्वा अहितस्यापि समुद्रं सानन्दरवं न्यायम् । अपिहितधीः न पिहिता धीर्यस्य अनावृतबुद्धिः । नीलाभो नीला आभा यस्य स विष्णुः कृष्णो गङ्गां खेलं क्रीडां कुर्वद् वा इव नरमयं बलमपि । सलिलधिर्गङ्गा ॥ शिखरिणी ॥
तद्वानेयद्विपमदमरुद्भान्तचित्तं कथंचि
द्भूतावेशाद्भमदिव शिरो धुन्वदाधोरणानाम् ।