________________
१४४
काव्यमाला |
इदमिति ॥ नयपरो नीतिपरोऽयं हनुमान् इति पूर्वोक्तप्रकारेणेदमभिधाय नृपमुद्रिकासमुपलक्षितं राममुद्रिकाभिधं प्राभृतमुपायनं प्रदाय, तां जानकीमाश्वासयन् सन् रिपोः कुलघनं जयन्तं पतिं रामं मुदा हर्षेण आयत । तथा उपपौर्णमासं पौर्णमासीसमीपोद्भवं विधोश्चन्द्रस्य महस्तेजः कृतार्थवत्रं कृतार्थताव्यञ्जकवदनं हि निश्चये एति प्राप्नोति ॥ भा - रतीये – नृपमुद्रिकासमुपलक्षितं राजकीयमुद्रामुद्रितं प्राभृतमुपायनं तां काननस्थकामिनीम्, पतिं चक्रपाणिम् ॥ पृथ्वीछन्दः ॥
इति श्रीदाधीच जातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां हनुमन्नारायणदूताभिगमनकथनो नाम त्रयोदशः सर्गः ।
चतुर्दशः सर्गः ।
श्रीपार्थः सपदि हरिस्तथा सरामः सुग्रीवः सदसि समंप्रभाविराटः । निश्चित्य प्रकृतिषु शक्तिमभ्यमित्रं व्युत्तस्थुः प्रलयदवानला इवामी ॥ १ ॥
श्रीपेति ॥ श्रीपार्थः श्रियं पाति तादृग् अर्थो यस्य लक्ष्मीरक्षाप्रयोजनः, हरिलक्ष्मणः, तथा स राम: प्रभाविराटः प्रभावी राटो ध्वनिर्यस्य स सुग्रीवो वानरराजः, अमी सपदि शीघ्रं सदसि सभायां समं युगपत् प्रकृतिषु स्वाम्यमात्यादिषु शक्ति निश्चित्य अभ्यमित्रं अमित्रं शत्रुं लक्षीकृत्य प्रलयदवानला इव व्युत्तस्थुः ॥ भारतीये – श्रीपार्थो लक्ष्म्युपलक्षितोऽर्जुनः, हरिः कृष्णः, सरामो बलभद्रयुतः, सुग्रीवः शोभनग्रीवः, समप्रभाः समं कदाप्यमानं प्रकृष्टं भाति सः । सममित्यव्ययम् । विराटः ॥ सर्गेऽस्मिन्प्रहषणी वृत्तम् ॥ स्कन्धस्था मदकरिणः प्रयाणभेरी दध्वान प्रतिसमयं निहन्यमाना । अत्युच्चैः पदमधिरोप्य मान्यमारान्न्यक्कारं क इह परैः कृतं सहेत ॥ २ ॥
स्कन्धस्थेति ॥ मदकरिणो मत्तमातङ्गस्य स्कन्धस्था प्रयाणभेरी निहन्यमाना सती प्रतिसमयं प्रतिक्षणं दध्वान ध्वनितवती । कः पुरुषोऽत्युच्चैरुच्चतरं पदं मान्यं जनमधिरोप्य नीत्वा आरात् पश्चादिह लोके परैः शत्रुभिः कृतं न्यक्कारं सहेत । अपि तु न कोऽपि ॥
आरावं दिशिदिशि तं निशम्य तस्या रोमाञ्चैः परिहृषितैस्तनुर्नृपाणाम् । अम्भोदप्रथमरवोत्थरत्नसूचिः संरेजे स्वयमिव सा विदूरभूमिः || ३ ||
आरावमिति ॥ नृपाणां सा तनुस्तमारावं दिशिदिशि निशम्य श्रुत्वा परिहृषितैरत्यानन्दसमुत्थितै रोमाञ्चैः, स्वयमात्मना, अम्भोदप्रथमरवोत्थरत्नसूचिरम्भोदस्य प्रथमरवा - दुत्था रत्नसूचिर्यस्यास्तादृग्विदूरभूमिरिव । संरेजे शुशुभे ॥ रागादेः सह वसतोऽपि तापवृत्तेर्यः स्वस्मिन्नवधिरहो न कस्यचित्सः । भूपानां रिपुमभिपश्यतामिवोग्रं यत्कोपे स्फुरति रसान्तरं न जज्ञे ॥ ४ ॥