SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ - १३ सर्गः] द्विसंधानम् । प्रदेशे मुहुर्वारंवारं मन्त्रं गुप्तभाषणमुपैति, परमपि मार्गगामिनमपि परिवृत्त्य आवृत्य नाधेत याचेत 'सा मत्प्रिया यदि दृष्टा तदा ब्रूत' इति पृच्छेत् । सपदि शीघ्रमसुषु प्राणेषु वसुषु द्रव्येषु च व्ययं व्यश्नुते । तेन किं तद् न कृतम् । अपि तु सर्वम् ।। सुहृदयमसुदेयं प्रेम मेऽन्योन्ययोगात्सहजमुपकरिष्यत्यायतं हन्त यस्मिन् । स्वयमुपनयमानं तत्कदा भावि तादृग्दिनमनुदिनमेवं ध्यायति त्वां नरेन्द्रः४२ __ सुहृदयमिति ॥ यस्मिन्दिने, असुदेयमसवो देया यत्र तत् सहजं नैसर्गिकमायतं दीर्घ प्रेम स्नेहोऽन्योन्ययोगात् परस्परसंबन्धात् मे सुहृदयमुपकरिष्यति । स्वयमात्मनोपनयमानं प्रढौकमानं तादृक् तद् दिनं कदा भविष्यति । एवमनुदिनं त्वां नरेन्द्रो ध्यायति ॥ मालिनीवृत्तम् ॥ सेनां विष्णोरथरयमयीं धीरकाकुस्थनादां __ नागैाप्तामिह समकरैर्दिग्गतैरीक्षितासे। कल्पान्ताब्धिप्लुतिमिव महाभीममत्स्यध्वजौघां संगन्तासे त्वमचिरमतस्तेन पद्मेश्वरेण ॥ ४३ ॥ सेनामिति ॥ त्वमथ रयमयीं वेगमयीं, धीरकाकुस्थनादां धीरः काकुस्थयो रामलक्ष्मणयोर्नादो यस्यां, दिग्गतैर्दिक्षु प्रवृत्तः, समकरैः सशोभशुण्डादण्डै गैर्दिग्गजैाप्ताम् । एतेन कृत्स्नधरामण्डलाच्छादिनी, महाभीममत्स्यध्वजौघां गरिष्ठभयानकमीनाकरालम्बसमुहां विष्णोर्लक्ष्मणस्य सेनाम् । रथरयमयी रथस्येव रयो हेतुर्यस्यास्तां, धीरकाकुस्थनादां धीरस्य गम्भीरस्य कस्य जलस्य आकुस्थः कुं पृथ्वीं व्याप्य तिष्ठन् नादो यस्यास्तां, समकरर्मकरसहितै गैरम्भोगजैाप्तां महाभीममत्स्यध्वजौघां महान्तो भीमा भयानका मत्स्या ध्वजौघा यस्यास्ताम् , कल्पान्ताब्धिप्नुतिं प्रलयकालजलधिप्लवमिव । ईक्षितासे । अतः कारणात् तेन पद्मेश्वरेण रामसंज्ञकेश्वरेणाचिरं शीघ्रमेव संगन्तासे ॥भारतीये-रथरयमयी स्यन्दनवेगप्रचुरां धीरकाकुस्थनादां धीरः काकुस्थो विरुद्धाभिप्रायेण वक्रोक्तिस्थो नादो यस्यां तां, समकरैः समानशुण्डैः, महाभीममत्स्यध्वजौघां महान् भीमो वृकोदरो मत्स्यो विराटाख्यराजश्च ध्वजौघ आलम्बपतिर्यत्र तां पद्मेश्वरेण पद्मापतिना कृष्णेन ॥ मन्दाक्रान्तावृत्तम् ॥ इतीदमभिधाय तां नयपरोऽयमाश्वासय न्प्रदाय नृपमुद्रिकासमुपलक्षितं प्राभृतम् । मुदायत पतिं रिपोः कुलधनं जयन्तं विधो स्तथैति हि कृतार्थवक्रमुपपौर्णमासं महः ॥ ४४ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये । हनुमन्नारायणदूताभिगमनं नाम त्रयोदशः सर्गः समाप्तः ।
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy