Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 153
________________ १३ सर्गः] द्विसंधानम् । तिदुर्धरस्वरूपमित्येकपदं वा । बीभत्समर्जुनम् , आशंसुः श्लाघ्यमानः भीमो वृकोदरस्तां ध्वजिन्याः पौरस्त्यां गतिमाप ॥ तत्पाद्यं गतधृतिमत्स्यदेशमाढ्यं भुञ्जानोऽनलसहितः सुखं प्रतस्थे । पञ्चालोचितविषयप्रभुश्च सैन्यं बिभ्राणः सवसुयशोविलासिनीलः ॥ २३ ॥ तत्पार्श्व इति ॥ शमाध्यमुपशमप्रधानं सुखं भुजानोऽनुभवन् नलसहितो नलेन राज्ञा सहितः पञ्चालोचितविषयप्रभुः पञ्चाले देशे उचितानां विषयाणां प्रभुर्नील एतदाख्यराजः सवसुयशोविलासि वसुना द्रव्येण सहितेन यशसा विलसति तत् सैन्यं बिभ्राणः सन् गततिमत्स्यदे गमनधैर्यवद्वेगयुते, तत्पार्चे सेनापार्श्वे प्रतस्थे। भारतीये-गतधृति गतं धरमाणे तत्पार्श्वेऽनलसहितः क्रोधाग्निव्याप्तः, अनलसेभ्य उद्योगिभ्यो हित आढ्यं समृद्ध मत्स्यदेशं भुञ्जान उपभुञ्जानो विराटः, सवसुयशोविलासिनीलः वसुना यशसा . विलासिन्या इलया च सहितः, पञ्चालोचितविषयप्रभुः पञ्चालस्योचितस्य धनकनकसमृद्धस्य विषयस्य प्रभुः पालको द्रुपदराजश्च ।। तन्मध्यं हरिकुलनायकैरनेकैरामोदस्फुटसितचन्दनोचिताङ्गः। दुर्वृत्तं विजहदसज्जनार्दनोऽसौ भूपार्थक्षतशमनोद्यतो जगाहे ॥ २४ ॥ दुर्वृत्तमिति ॥ स्फुटसितचन्दनोचिताङ्गः स्फुटसिताय सुग्रीवाय चन्दनाय तन्नान्ने उचितं रक्षणोचितम् अङ्गं यस्य तादृक् दुर्वृत्तं विजहत् असजनार्दनः असतो दुष्टाञ्जनानर्दयति ताक्, भूपार्थक्षतशमनोद्यतो भूपानाम् अर्थस्य क्षात्रधर्मस्य क्षतस्य नाशस्य शमने उद्यतः क्षात्रधर्मप्रतिपालकोऽसौ रामोऽदः । खर्परशान विसर्गलोपः । तन्मध्यं सेनामध्यम् अनेकैहरिवंशनायकैर्वानरसंघस्वामिभिर्जगाहे ॥ भारतीये-आमोदस्फुटसितचन्दनोचिताङ्गः आमोदेन स्फुटस्य सितचन्दनस्योचितमङ्गं यस्य, भूपार्थक्षतशमनोद्यतः भवः पार्थानां च क्षतशमने उद्यतः, जनार्दनो विष्णुः, असद् असमीचीनम् असौ खड्ने, दुर्वृत्तं विजहत् त्यजन् ॥ मदोत्तमाद्रेयबलेभसारे भागेऽपरे सर्पति जाम्बवेऽस्मिन् । द्वीपेऽन्विते राजभिरप्रसौः ससर्प वेलेव चमूः पयोधेः ॥ २५ ॥ मदोत्तमेति ॥ मदोत्तमाद्रेयबलेभसारे मदोत्तमैर्मदप्रधानैराद्रेयैः पर्वतोद्भवैर्वलेभैः सैन्यगजैः सारे अप्रसधै राजभिरन्विते अस्मिन् जाम्बवे जाम्बवीयबले अपरे भागे पश्चिमभागे मर्पति सति चमूः । पयोधेर्वेलेव । ससर्प ॥ भारतीये-मदोत्तमाद्रेयबलेभसारे मदेनोत्तैः क्लिनर्माद्रेयबलेभै कुलसहदेवसैन्यगजैः सारे बले सर्पति सति अप्रसधै राजभिरन्विते अम्मिञ् जाम्बवे जम्बूवृक्षोपलक्षिते द्वीपे ।। उपजातिः ॥ एवं नानाक्षत्रियवगैः पृतनाग्रे सालङ्कान्तं रौप्यमिवैतैः सह सालम् । वेलापातश्वेततरङ्गं जलराशिं तं सारम्भोगाङ्गमवापन्नृपतिश्च ॥ २६ ॥ सजना

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230