Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
१३०
काव्यमाला।
कया नखरैर्नविलिखन्, रसन् गर्जन् , अभिपतन् संमुखं गच्छन्, शरभः शार्दूलः गुहागहनं गुहावने दरीमुखं वा व्यगाहत प्राविक्षत ॥
तमुदीक्ष्य शैलमुपयन्रभसा ववृधे स्वयं स भुवनाभ्यधिकम् । करकन्दुकागिरिमतीव लघु पुरुषोत्तमोऽतिपरुषोऽजगणत् ॥ ३५ ॥ तमिति ॥ अतिपरुषो अतिनिष्ठुरः स पुरुषोत्तमो लक्ष्मणो नारायणश्च, तं शैलमुदीक्ष्य, रभसौत्सुक्येनोपयन् समीपमागच्छन् , स्वयमात्मना, भुवनाभ्यधिकं यथा स्यात्तथा ववृधे । गिरिं कोटिशिलानामानम् , करकन्दुकान हस्तगेन्दुकादतीव लघुमजगणत् ॥
जघनं निबध्य वसनेन घनं विनियम्य केशनिचयं शिरसि । भुवमुत्खनश्चरणपाणितलैः स ववल्ग मल्ल इव वल्गु नदन् ॥ ३६ ॥ जघनमिति ॥ स लक्ष्मणो विष्णुर्वा वसनेन वस्त्रेण जघनं नितम्बं धनं यथा स्यात्तथा निबध्य शिरसि केशनिचयं विनियम्य दृढं नियन्त्र्य चरणपाणितलैर्भुवं भूमिमुत्खनन् वल्गु मनोहारि यथा स्यात्तथा नदन् सन् मल्ल इव ववल्ग चचाल ॥
पदघातजातदरि मुक्तधरं स धराधरं सुकृतवान्कृतवान् । विजहाति वा बलवता निहतः श्लथमण्डलः किल न कः पृथिवीम्॥ ३७॥
पदेति ॥ सुकृतवान् पुण्यवान् स लक्ष्मणो विष्णुश्च धराधरं कोटिशिलानामकपर्वतं पदघातजातदरि पदयोर्घातेन जाता दरी यत्र ताक्, मुक्तधरं मुक्ता त्यक्ता धरा पृथ्वी येन तादृक् यथा स्यात्तथा कृतवान् । बलवता निहतः श्लथमण्डल: सन् कः पृ. थिवीं न विजहाति ॥
स दरीमुखेन नतकुजतनुः प्रविशन्नधस्पदममुष्य गिरेः । सममि दर्शितवराहगतिर्गतवान्वराह इति नाम तदा ॥ ३८ ॥
सदेति ॥ नतकुब्जतनुर्नता कुब्जा तनुः शरीरं यस्य सोऽमुध्य गिरेरधस्पदमधोभागं दरीमुखेन प्रविशन् दर्शितवराहगति दर्शिता वराहस्येव गतिर्येन स लक्ष्मणः कृष्णश्च तदा वराह इति नाम गतवान् इति समवैमि ॥
उरसा निपीड्य भुजयोतियं परितः प्रसार्य परिधार्य शिलाम् । समुदक्षिपद्वरविवाहशिलामिव गोमिनीं परिणिनीषुरसौ ॥ ३९ ॥
उरसेति ॥ गोमिनी लक्ष्मी परिणिनीषुः परिणेतुमिच्छरसौ लक्ष्मणः कृष्णश्च, भुजयोद्वितयमुरसा निपीड्य परितः सर्वतः प्रसार्य शिलां कोटिशिलाम् । वरविवाहशिलामिव । समुदक्षिपत् समुच्चिक्षेप ॥
कृतपाणिपीडनविधिः प्रथमं पुरुषोत्तमेन समुदूढतनुः । विरराज कोटिकशिला भयतः परिकम्पिता नववधूरिव सा ॥ ४० ॥

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230