SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १३० काव्यमाला। कया नखरैर्नविलिखन्, रसन् गर्जन् , अभिपतन् संमुखं गच्छन्, शरभः शार्दूलः गुहागहनं गुहावने दरीमुखं वा व्यगाहत प्राविक्षत ॥ तमुदीक्ष्य शैलमुपयन्रभसा ववृधे स्वयं स भुवनाभ्यधिकम् । करकन्दुकागिरिमतीव लघु पुरुषोत्तमोऽतिपरुषोऽजगणत् ॥ ३५ ॥ तमिति ॥ अतिपरुषो अतिनिष्ठुरः स पुरुषोत्तमो लक्ष्मणो नारायणश्च, तं शैलमुदीक्ष्य, रभसौत्सुक्येनोपयन् समीपमागच्छन् , स्वयमात्मना, भुवनाभ्यधिकं यथा स्यात्तथा ववृधे । गिरिं कोटिशिलानामानम् , करकन्दुकान हस्तगेन्दुकादतीव लघुमजगणत् ॥ जघनं निबध्य वसनेन घनं विनियम्य केशनिचयं शिरसि । भुवमुत्खनश्चरणपाणितलैः स ववल्ग मल्ल इव वल्गु नदन् ॥ ३६ ॥ जघनमिति ॥ स लक्ष्मणो विष्णुर्वा वसनेन वस्त्रेण जघनं नितम्बं धनं यथा स्यात्तथा निबध्य शिरसि केशनिचयं विनियम्य दृढं नियन्त्र्य चरणपाणितलैर्भुवं भूमिमुत्खनन् वल्गु मनोहारि यथा स्यात्तथा नदन् सन् मल्ल इव ववल्ग चचाल ॥ पदघातजातदरि मुक्तधरं स धराधरं सुकृतवान्कृतवान् । विजहाति वा बलवता निहतः श्लथमण्डलः किल न कः पृथिवीम्॥ ३७॥ पदेति ॥ सुकृतवान् पुण्यवान् स लक्ष्मणो विष्णुश्च धराधरं कोटिशिलानामकपर्वतं पदघातजातदरि पदयोर्घातेन जाता दरी यत्र ताक्, मुक्तधरं मुक्ता त्यक्ता धरा पृथ्वी येन तादृक् यथा स्यात्तथा कृतवान् । बलवता निहतः श्लथमण्डल: सन् कः पृ. थिवीं न विजहाति ॥ स दरीमुखेन नतकुजतनुः प्रविशन्नधस्पदममुष्य गिरेः । सममि दर्शितवराहगतिर्गतवान्वराह इति नाम तदा ॥ ३८ ॥ सदेति ॥ नतकुब्जतनुर्नता कुब्जा तनुः शरीरं यस्य सोऽमुध्य गिरेरधस्पदमधोभागं दरीमुखेन प्रविशन् दर्शितवराहगति दर्शिता वराहस्येव गतिर्येन स लक्ष्मणः कृष्णश्च तदा वराह इति नाम गतवान् इति समवैमि ॥ उरसा निपीड्य भुजयोतियं परितः प्रसार्य परिधार्य शिलाम् । समुदक्षिपद्वरविवाहशिलामिव गोमिनीं परिणिनीषुरसौ ॥ ३९ ॥ उरसेति ॥ गोमिनी लक्ष्मी परिणिनीषुः परिणेतुमिच्छरसौ लक्ष्मणः कृष्णश्च, भुजयोद्वितयमुरसा निपीड्य परितः सर्वतः प्रसार्य शिलां कोटिशिलाम् । वरविवाहशिलामिव । समुदक्षिपत् समुच्चिक्षेप ॥ कृतपाणिपीडनविधिः प्रथमं पुरुषोत्तमेन समुदूढतनुः । विरराज कोटिकशिला भयतः परिकम्पिता नववधूरिव सा ॥ ४० ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy