________________
१२ सर्गः] द्विसंधानम् ।
१२९ इति संकथां निशमयन्सुहृदः स निशामयन्सपदि तत्तदयम् । समराघवक्रमधुराजगती रतिमाप येन समवाप शिलाम् ॥ २९ ॥ इतीति ॥ येन लक्ष्मणेन, समराघवक्रमधुरा समा राघवस्य रघुसंबन्धिनः क्रमस्य धूर्जगती पृथिवी रतिमाप । सोऽयमिति पूर्वोक्तां सुहृदो हनूमतः संकथां वार्ती निशमयञ् शूएवंस्तत्तत्पदार्थजातं सपदि निशामयन् पश्यन् शिलां समवाप ॥ भारतीये-येन नारायणेन समराघवक्रमधुराजगतिः समरे अघस्य पापस्य वक्रस्य कुटिलस्य मधोर्दैत्यस्य राजगती राज्यम्, रतिं नाशमाप । सुहृदो भीमस्य ॥
ऋषिकोटिभीत इति जन्यभिया स्वगले निबध्य मदनेन नदीम् । प्रविविक्षुणा खलु कुतश्चिदियं न शिलाहृतेति कलितं हरिणा ॥३०॥ प्रभविष्यतः कलियुगाद्भयतो न खलूपगोप्य भुवि धर्मनिधिम् । यतिभिः शिलोपरिकृतेयमिति प्रवितर्कितं हलधरेण तदा ॥ ३१ ॥ ऋषीति ॥ ऋषिकोटिभीत इति जन्यभिया जनापवादभयेन स्वगले शिलां निबध्य नदी प्रविविक्षुणा मदनेन रतिपतिना कुतश्चिदियं शिला नाहृता । अपि त्वाहृतैव । इत्येवं प्रकारेण हरिणा लक्ष्मणेन कृष्णेन च कलितम् । प्रभविष्यतो भाविनः कलियुगात् तद्धेतुकाद् भयतो भयात् भुवि भूमौ धर्मनिधिमुपगोप्य गोपयित्वोपरीयं शिला खलु निश्चयेन यतिभिः कर्तभिः न कृता । अपि तु कृतैवेति तदा तत्काले हलधरेण रामेण बलभदेण च प्रवितर्कितम् ॥
हरिणा जिनाभिषवणोन्मनसा जनताविदूर्यमुपपादयितुम् । निकटान्न पाण्डुकशिलागपतेः खलु साहृतेत्यवहितं हरिभिः ॥ ३२॥
हरिणेति ॥ जिनाभिषवणोन्मनसा जिनदेवस्याभिषेकं कर्तुमनसा हरिणेन्द्रेण जनताविदूर्य जनसमूहनिकटतामुपपादयितुमगपतेर्मेरोनिकटात्समीपात् सा पाण्डुकशिला खलु निश्चयेनाहृता इति हरिभिर्वानरैर्यादवैर्वावहितम् ॥
उपवीणयन्हषदि सिद्धपदं निलयान्निलिम्पनिवहो निरगात् । न महः क्षणं विषहते स्म हरेबलवत्तरोऽस्ति बलिनोऽप्यथवा ॥ ३३ ॥ उपवीति ॥ सिद्धपदं जिनेश्वरयश उपवीणयन् वीणयोपगायन् निलिम्पनिवहो देवसमहो निलयात् गृहाद् दृषदि तस्यां शिलायां निरगात् । तथा हरेर्लक्ष्मणस्य कृष्णस्य च महस्तेजः क्षणं न विषहते स्म । यतः बलिनोऽपि बलवत्तरोऽस्ति ॥
गजगण्डघट्टितमदच्छुरितां गजशङ्कया मुनिशिलां नखरैः।। विलिखनरसन्नभिपतञ्शरभः शरणं व्यगाहत गुहागहनम् ॥ ३४ ॥ गजेति ॥ गजगण्डघट्टितमदच्छुरितां करिकपोलसंघर्षमदजलविलिप्तां मुनिशिलां गजश