SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२८ काव्यमाला। अभिपेचकं निपतता हरिणा पुरतः क्रमेण पदयोर्द्विरदः । स्थितवानिहोन्नमितकुम्भकरः क्षणमङ्कुशेन विनिरुद्ध इव ॥ २३ ॥ अभीति ॥ अभिपेचकं पुच्छमूलं लक्षीकृत्य पुरतः पदयोश्चरणयोः क्रमेण निपतता हरिणा सिंहेनोन्नमितकुम्भकर उर्ध्वनीतकुम्भकरो द्विरदः क्षणमङ्कशेन विनिरुद्ध इव । स्थितवान् ॥ तरवो न सन्त्यफलिनो न लताः कुसुमोज्झिता न विरतस्रुतयः । सरितोऽलिहंसशुककोकिलकध्वनिवर्जितोऽत्र न परोऽस्ति रवः ॥२४॥ तरव इति ॥ स्पष्टम् ॥ इह भान्ति मण्डपभुवः सलताः सवितर्दिका गिरिपतत्सलिलाः । वनदेवताभिरपदिश्य मिथः पथिकान्प्रपा इव शुचौ रचिताः ॥ २५ ॥ इहेति ॥ इह सलताः सवितर्दिका उपवेशनस्थानसहिता गिरिपतत्सलिला गिरिभ्यः पतत् सलिलं यत्र तादृशो मण्डपभुवः । वनदेवताभिः पथिकानपदिश्योद्दिश्य मिथः परस्परं शुचौ ग्रीष्मे रचिताः प्रपा इव । भान्ति ॥ पतितस्तरोः शकुनिविष्टिचितः शबरैरितोऽर्कशपथक्रियया । उपयुक्तमुक्तसिततण्डुलकैरवभाति कीर्ण इव पर्णचयः ॥ २६ ॥ पतित इति ॥ तरोः पतितः शकुनिविष्टिचितो विहंगामेध्ययुक्तः पर्णचयः । शबरैः पुलिन्दैः [कर्तृभिः] अर्कशपथक्रियया सूर्यार्चाविधिनोपयुक्तमुक्तसिततण्डुलकैरुपयोगीकृतोज्झितश्वेततण्डुलसमूहैः कीर्णो भृत इव । अवभाति॥ कुसुमं धनुर्मधुलिहोऽस्य गुणः शुककूजितं समरतूर्यरवः । मदनस्य साधनमिदं प्रचुर सुलभं न साध्यमिह तद्विपिने ॥ २७ ॥ कुसुममिति॥यस्मात् कुसुमं धनुः, मधुलिहो भ्रमरा अस्य धनुषो गुणो ज्या, शुककूजितं समरतूर्यरवः सङ्ग्रामतूर्यध्वनिः जायते इति मदनस्य कंदर्पस्य साधनं प्रचुरम् (अतएव) सुलभम् । तस्मादिह विपिने न किंचित् साध्यम् ॥ त्रिदिवेच्छया व्रतमिहत्यजनैः क्रियते न मुच्यत इदं दिविजैः । तदिदं वनं दिवममि दिवं शतशीर्णकल्पतरुशेषहताम् ॥ २८ ॥ त्रिदिवेति ॥ इहत्यजनैरिहभवैर्जनैः । [अव्ययात्त्यप् ।] त्रिदिवेच्छया स्वर्गेच्छया व्रत क्रियते, दिविजैः स्वर्गजैर्देवैरिदं न मुच्यते, तस्मादिदं वनं दिवं स्वर्गम्, दिवं यां शतशीर्णकल्पतरुशेषहताम् देवानामत्र वने वासात् स्वीयफलाभक्षणेन भाराकान्ततया शतं यथा स्यात्तथा शीर्णानां कल्पतरूणां शेषेण हताम् अवैमि जाने ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy