SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः ] द्विसंधानम् । १२७ परतः पश्चाद्भागे नतम्, कुचभरात् स्तनभारात् किमप्यल्पं यथा स्यात्तथा पूर्वतो नतं तत्पदयोरमराङ्गनाचरणयोः पदं स्थानं कर्तृ पुलिनेषु सैकतेष्वमराङ्गनागमनं सूचयति ॥ अमुतश्च पुष्पशयनं रचितं नवयावकाङ्कितपदं त्रिदशैः । रुधिरारुणं कुसुमबाणचितं मदनस्य पञ्चकमिव ज्वलति ॥ १७ ॥ अमुत इति ॥ अमुतोऽमुष्मिन्प्रदेशे त्रिदशैर्देवै रचितं विहितं नवयावकाङ्कितपदं नूतनालक्तकचिह्नितचरणं पुष्पशयनं कुसुमशय्या । रुधिरारुणं रक्तशोणितं कुसुमबाणचितं प्रसूनशरव्याप्तं मदनस्य कंदर्पस्य पञ्चकं रणस्थलमिव । ज्वलति भाति ॥ स्तनतापसूनमवनम्रनलं बिशपत्रमत्र कुसुमास्तरणे । किमुतोज्झितान्यमनसा विगुणा सुरयोषिता विरहवल्लकिका ॥ १८ ॥ स्तनेति ॥ अत्र कुसुमास्तरणे, स्तनतापसूनं कुचतापशुष्कम् (अतएव ) अवनम्रनलं म्लाननालं बिशपत्रं पद्मिनीदलम् अस्ति । अन्यमनसा विरहेण खिन्नचित्तया सुरयोषिता अमररमण्या विगुणा त्रुटिततन्त्रीविरहवल्लकिका वियोगवीणोज्झिता त्यक्ता किमुत ॥ मृगनाभिजं परिमलं द्विरदः करिदानगन्धमनुयाति हरिः । इह जन्तुरेवमपरोऽपि परं विनिहन्तुमेव समनुव्रजति ॥ १९ ॥ मृगेति ॥ परिमलेनैव तत्तद्भान्त्या तस्य तस्य विनिहन्तुं धावनम् ॥ सरसीह मज्जति करिण्यलिनां परिधिः कराग्रनिभृतः स्फुरति । जलदेवतार्थमिददुद्गतवत्क्षणमातपत्रमिव बर्हमयम् ॥ २० ॥ सरसीति ॥ इह सरसि, करिणि मजति सति, कराग्रनिभृतः शुण्डादण्डाग्रस्थितो अलिनां परिधिः परिवेषः । जलदेवतार्थमुद्गतवदुदितं क्षणं बर्हमयं पिच्छमयम् आतपछत्रमिव । स्फुरति ॥ सबलाकिका नवतृणा जगती मृदु निर्झरं वहति वाति मरुत् । सवितावृतश्च विपिनैरिह किं जलदागमः सततसंनिहितः ॥ २१ ॥ सबलाकीति ॥ इह सबलाकिका बलाकया बिसकण्टिकया सहिता, नवतृणा नूतनतणा जगती पृथ्वी मृदु निर्झरं वहति, मरुद्वायुर्वाति, सविता च विपिनैरावृतः । तथा च जलदागमः प्रावृट्कालः किं सततसंनिहितोऽस्ति ॥ द्विपदन्तपत्रमदमौक्तिकवद्दधतः श्रवोभुजगलं शबरान् । करिणां न केवलमसून्मनुवे हरतोऽमुतः सकलसारमपि ॥ २२ ॥ द्विपेति ॥ अमुतोऽमुष्मिन्देशे द्विपदन्तपत्रमदमौक्तिकवत् गजानां दन्तपत्रमदमौक्तिकव्याप्तं श्रवोभुजगलं कर्णबाहुकण्ठं यथाक्रमं दधतः शबरान् केवलं करिणामसून् प्राणान् हरतो न मनुवे । किंतु सकलसारम् अपि हरतः ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy