________________
१२६
काव्यमाला |
तवेति ॥ यत् यस्मात्कारणादु अहो, तव पूर्वजेन रघुणा किमरातयो नोपनता न निहताः । निहता एव । स रघुः सकलं जगत् कया तव शिलोद्धरणडम्बनया वशगं कृतवान् ॥ भारतीये – यदुना यादवकुलाद्यपुरुषेण, नरघुणा नरकीटा अरातयः ॥
जनमाकलस्व भुवि सांशयिकं भवतस्तथाप्युचितमुद्यमनम् ।
तदिदं द्विषां हि पतिंकरणं विजयश्रियश्च सुभगंकरणम् ॥ १२ ॥
जनमिति ॥ यद्यपि त्वं भुवि जनं सांशयिकं संशयापन्नमाकलस्वालोकय । तथापि भवत उद्यमनमुद्यम उचितम् । हि स्फुटं तदिदमुद्यमनं द्विषां पलितंकरणम्, विजयश्रियः सुभगकरणम् अस्ति || ' आठ्यसुभग-' इति च्व्यर्थे ख्युन् ॥
कुलपर्वताः कुलपराभवतः समवैमि तेऽद्य निजमुन्नमनम् ।
कलयन्ति फल्गु विलयं मनुते सवितोदयास्तमयसानुमतोः ॥ १३ ॥ कुलेति ॥ कुलपर्वता मेर्वादयस्ते तव कुलपराभवत: कुलात्पराभवतो निजं स्वकीयमुन्नमनं फल्गु व्यर्थे कलयन्ति मन्यन्ते । इति हेतोः । अद्य सांप्रतं सवितोदयास्तमयसानुमतोरुदयाद्र्यस्तायोर्विलयं मनुते । एतेन स्वस्य निराश्रयत्वशङ्कया सखेदता मता भवति । इत्यहं समवैमि जाने ॥
तदितो निरूपय पयोधरयोस्तटयोर्भरेण मृदुमन्दगतिम् ।
बलिशोभितां सरितमश्वमुखीमपि सारसानुगमनाकुलिताम् ॥ १४ ॥ तदित इति ॥ तस्मादितः स्थानात् । पयोधरयो जलधारिणोस्तटयोः कूलयोर्भरेण मृदुमन्दगतिं पेशलालसप्रवाहाम्, तटयोरुच्छ्रितयोः । 'तट उच्छ्राये' । पचाद्यच् । पयोधरयोः स्तनयोर्भरेण भारेण मृदुमन्दगतिं पेशलालसगमनां च । बलिशोभितां तरङ्गभूषितां, जठरराजित्रयविराजितां च । सारसानुगमनाकुलितां सारसानां लक्ष्मणानामनुगमनेन पश्चाहत्या आकुलिताम्, सारेणोत्कृष्टेन सानुषु गमनेनाकुलितां च । सरितं नदीम् अश्वमुखीं किंनरीं च निरूपयावलोकय ॥
इह सैकतं तरणितप्तमिदं परिहृत्य हंसकुलमेति सरः ।
विरला वसन्ति च सति व्यसने किमु पक्षपातनिरता हि पुनः ॥ १९ ॥
इहेति ॥ इह देशे इदं हंसकुलं कर्तृ तरणितप्तं सूर्यतापितं सैकतं सिकताप्रचुरं परिहृत्य त्यक्त्वा सर एति । व्यसने निवासनिपाते आपत्तौ सति विरला वसन्ति | पक्षपातनिरता गृह्यत्वाभिनिवेशिनः परिच्छदानां पाते निरताः पुनः किमु ॥
परतो नतं जघनपाणिभराद्बहु पूर्वतः कुचभरात्किमपि ।
पुलिनेषु सूचयति तत्पदयोरमराङ्गनागमनमत्र पदम् ॥ १६ ॥
परत इति ॥ जघनपाणिभरात् जघनयोः पार्योश्च भरात् भारात् बहु यथा स्यात्तथा