SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२ सर्गः] द्विसंधानम् । १२५ विनीति ॥ असौ सुहृदां प्रथमं प्रथमसदृशमदः, आत्मसाहसं धैर्यमात्मना क्वचित् अ. धुना विनिपातितं विनिहतं वा इति निरूपयितुं सहसा शीघ्रं व्रजन्निव ददृशे ॥ सघनागमो निजशुचिः सुरभिर्वनपुष्पगः समहिमोग्रजवः । सरसां शरच्छविमितः शिशिरो मरुदन्वगात्तमृतुमूर्तिरिव ॥ ७ ॥ सघनेति ॥ सघनागमो घनागमेन मन्दगत्या सहितो वर्तमानः, स प्रसिद्धो धनागमः प्राट् च । निजशुचिनिजेनात्मना शुचिः पवित्रः, ग्रीष्मश्च । वनपुष्पगः सुरभिः वनपुष्पगत्वेन सुरभिः कान्तारकुसुममकरन्दबिन्दूत्करवासनावासिततनुः, वनपुष्पज्ञेयो वसन्तश्च । समहिमा महिना सहित उग्रजव उत्कटवेगः, समहिमः समं हिमं यस्येति शीतली अग्रजवः प्रधानवेग इति वा समहिमोग्रजवः समोऽहर्निशतुल्यो हिमस्योगोऽसह्यो जवो यस्मिन् स हेमन्तः । सरसां रसिकां शरच्छवि जलरूपता मितः सीकरबहुलः, सरसां सरोवराणां छविं स्वच्छतामितः प्रापयिता शरत्कालः । शिशिरः शीतलः शिशिरनामा च ॥ वचनातिपातमटवीमटवीं सधुनी धुनीमभिनिवेशमगात् । स लतागृहान्वसतिरम्यतया तरसाभिपादमभिपादमगात् ॥ ८ ॥ क्वचनेति ॥ सोऽगात् पर्वतात् कचनाटवीमटवीं वनंवनमतिपातमतिपत्य सधुनी धुनी नदी मिलिताम् नदीमभिनिवेशमभिनिविश्य वसतिरम्यतया मन्दिररमणीयतया लतागृहान् अभिपादमभिपादमभिपद्याभिपद्य तरसा शीघ्रमगाद्गतवान् ॥ पथि पाण्डुराजकुलवृद्धिमतः किल केशवं मुखरयन्ककुभः । इति भीमसेन उचितावसरं सरसं जगाद स मरुत्तनयः ॥ ९ ॥ पथीति ॥ अतोऽस्मात्कारणात् किल लोकोक्तौ शास्त्रोक्तौ वा भीमसेनो भयानकबलः स मरुत्तनयो हनूमान् ककुभो दिशो मुखरयन् प्रतिशब्दयन् पाण्डुराजकुलवृद्धिं पाण्डुरस्य अजकुलस्य दशरथादिपुरुषकुलस्य वृद्धिर्यस्मात् तादृशं पाण्डु निर्मलम् इति क्रियाविशेषणं वा राजकुलवृद्धिं केशवं लक्ष्मणं इति वक्ष्यमाणमुचितावसरं सरसं जगाद ॥ भारतीये-मरुत्तनयो वायुपुत्रो भीमसेनो वृकोदरः, पाण्डुराजकुलवृद्धिं पाण्डुनामकराजकुलस्य वृद्धिर्यस्मात्तं केशवं नारायणम् ॥ शशिनस्तुलां समुपयाति कुलं भवतो यतेरुपशमश्च विधाम् । तव पौरुषं स्वसदृशं भुवनं भ्रमदव्यपेक्ष्य भुजयोरजरत् ॥ १० ॥ शशीति ॥ भवतः कुलं शशिनस्तुलाम्, उपशमो यतेर्विधाम्, समुपयाति । तथा तव पौरुषं भुवनं भ्रमत् सत् स्वसदृशमव्यपेक्ष्यादृष्ट्वा भुजयोरजरत् जीर्णम् ॥ एतेन शत्रूणामभावेन युद्धाभावो दर्शितः ॥ तव पूर्वजेन यदुनोपनताः किमरातयो नरघुणा निहताः । सकलं जगद्वशगतं कृतवान्स कया शिलोद्धरणडम्बनया ॥ ११ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy