SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२४ काव्यमाला । द्वादशः सर्गः। अथ वानराधिपतिभिः प्रबलैः परमः पुमान्बलयुतोऽनुगतः । श्रुतविक्रमप्रशमिभिः प्रययौ विनयैर्विभूतिमिव सिद्धशिलाम् ॥ १ ॥ __ अथेति ॥ अथ मन्त्रनिर्णयानन्तरं प्रबलैः प्रकृष्टसामर्थैः श्रुतविक्रमप्रशमिभिः शास्त्रपौरुषोपशमवद्भिर्वानराधिपतिभिः सुग्रीवप्रभृतिभिरनुगतः, बलयुतः शरीरसामर्थ्ययुक्तः, परमः पुमालक्ष्मणः सिद्धशिलां कोटिशिलाभिधां दृषदम् । विनयविभूतिमिव । प्रययौ ॥ भारतीये-नराधिपतिभिः समुद्रविजयादिभिः । बलयुतो बलभद्रयुक्तः । परमः पुमान् नारायणः ॥ सर्गेऽस्मिन्प्रमिताक्षरा वृत्तम् ॥ अनुजग्मुरेनमनुकूलतया हरिवंशजाः सुखचरा बहवः । व्यवसायमायनिचया इव तं किममी न वाततनयप्रमुखाः ॥ २ ॥ अनुजेति ॥ सुखचराः शोभनाकाशगामिनो बहवो वाततनयप्रमुखाः हनुमत्प्रमुखाः हरिवंशजा वानरान्वयोत्पन्ना अमी तमेनं लक्ष्मणमनुकूलतया। आयनिचया द्रव्यप्रवेशद्वाराणि व्यवसायमुद्योगमिव । किं नानुजग्मुः । अनुगतवन्त एव ॥ भारतीये-सुखचराः शर्मगामिन आतत-नय-प्रमुखा विस्तीर्णनीतिप्रमुखा हरिवंशजा यादवकुलप्रसूताः ॥ रविमण्डलोत्थित इवान्य इव स्वयमन्यजन्म गतवानिव सः । नरभीमयोजनसुदुःसहया प्रभया परिष्कृततनुः शुशुभे ॥ ३ ॥ रवीति ॥ रविमण्डलोत्थितः सूर्यबिम्बोत्पन्न इव, अन्य इव, स्वयमन्यजन्म जन्मान्तरं गतवान् इव, इत्युत्प्रेक्षया नरभीमयो नराणां भयहेतुर्जनसुदुःसहया जनैरतिशयेन सोढुमशक्यया, प्रभया परिष्कृततनुभूपितदेहः स लक्ष्मणः शुशुभे ॥ भारतीये-नरभीमयोजनसुदुःसहया नरस्यार्जुनस्य भीमस्य वृकोदरस्य च योजनेन योगेन सुदुःसहया, स नारायणः॥ विशदं यशोऽखिलदिशं निखिलां भुवमायतिः स्तुतिकथां महिमा । समतीयिवत्सममिदं सकलं भुजयोः शिरोऽस्य समतीतवतोः ॥ ४ ॥ विशदमिति ॥ अस्य भुजयोः शिरः (उन्नतस्कन्धत्वात् ) समतीतवतोः सतोः, विशदं यशोऽखिलदिशं समस्ता दिशः, आयतिर्विख्यातिनिखिलां भुवम्, महिमा स्तुतिकथाम् समं युगपद् इदं सकलं समतीयिवत् ॥ किमु मे भुजेन भुवनस्य भरं वहतः शिला बहिरियं जगतः । दधतो भुवं किमु नगस्य भरस्तरुरित्ययं मयमियाय मुहुः ॥५॥ किम्विति ॥ भुजेन भुवनस्य भरं वहतो मे इयं शिला जगतो बहिः किमु, भुवं दधतो मे अयं नगस्याद्रेभरस्तरुश्च बहिः किम्विति स्वयं गर्व मुहुरियाय ॥ विनिपातितं विनिहतं प्रथमं क्वचिदात्मनोद्धृतमदः सुहृदाम् । अधुनात्मसाहसमसौ सहसा ददृशे व्रजन्निव निरूपयितुम् ॥ ६ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy