SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२२ ११ सर्गः] द्विसंधानम् । एभिः शिरोभिरतिपीडितपादपीठः सङ्ग्रामरङ्गशवनर्तनसूत्रधारः । तं कंसमातुल इहारिगणं कृतान्त दन्तान्तरं गमितवान्न समन्दशास्यः ॥ ३८ ॥ एभिरिति ॥ समातुलो मातुलेन मारीचेन सहितो, दशास्यो रावणस्तं प्रसिद्धं कमरिगणं शत्रुगणं कृतान्तदन्तान्तरं यमदशनमध्यं न गमितवान् । अपि तु सर्वम् ॥ भारतीये-स प्रसिद्धः । मन्दशास्यः मन्दाः शास्या यस्य तादृक् । कंसमातुलो जरासंधो न गमितवानिति काकौ ॥ वसन्ततिलका ॥ विगणय्य परस्य चात्मनः प्रकृतीनां समवस्थितिं पराम् । अमुयोपचिताः कयापि चेद्विषतेऽसूयियिषन्ति सूरयः ॥ २९ ॥ विगणेति ॥ परस्य शत्रोरात्मनस्य परामुत्कृष्टां प्रकृतीनां स्थिति विगणय्य ज्ञात्वा अ. मुया प्रकृतिस्थित्या कयापि चेदुपचिता वृद्धिंगताः, तर्हि सूरयो द्विषते असूयियिषन्ति । चैतालीयं छन्दः ॥ तत्संहारो मा स्म भूद्वन्धुतायाः सिद्धादेशव्यक्तये सिद्धशैलम् । नीत्वा विष्णुं तं परीक्षामहेऽमी ज्ञात्वा दण्डं साम वा योजयामः ॥ ४० ।। तदिति ॥ तत् तस्मात् कारणात् बन्धुताया बन्धुसमूहस्य मैत्र्या वा संहारो मा भूत्। अमी वयं सिद्धशैलं कोटिशिलां नीत्वा सिद्धादेशव्यक्तये श्रुतज्ञानोपदेशाय तं विष्णुं रामं नारायणं वा परीक्षामहे । ज्ञात्वा परीक्ष्य दण्डं साम वा योजयामः ॥ शालिनी ॥ इत्यस्य वाचमभिनन्द्य भरोत्थितानां राज्ञां गलाङ्गदगलद्गुलिकाच्छलेन । मन्त्रस्य कल्पितमिवाजनि मल्लिकाना माराधनंजयपरं मुकुलोपहारैः ॥ ४ १ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये सुग्रीव जाम्बवाञ्जनानन्दन-नारायणपाण्डवादिमत्रकथनो नामैकादशः सर्गः समाप्तः । इत्यस्येति ॥ इति पूर्वोक्तामस्य जाम्बवस्य बलभद्रस्य च वाचं वाणीमभिनन्द्य संस्तुत्य भरोत्थितानां राज्ञां गलाङ्गदगलगुलिकाच्छलेन कण्ठकेयूरक्षरन्मौक्तिकव्याजेन मन्त्रस्य मल्लिकानां मुकुलोपहारैः कलिकोपहारैः कल्पितमिव जयपरं जयं पिपर्ति तदाराधनमजनि॥ वसन्ततिलका वृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां सुग्रीवजाम्बवाञ्जन-नारायणपाण्डवादि. मन्त्रकथनो नामैकादशः सर्गः ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy