________________
१२२
काव्यमाला |
विद्याबलेन विभवेन पराक्रमेण चिन्त्यस्त्वया बलवता बलवान्विपक्षः ।
दण्डारणिप्रकृतिरग्निरिवान्तरुत्थस्तापं तनोति हि महानुभयोर्विमर्दः ॥ ३४ ॥
विद्येति ॥ बलवता त्वया विपक्षः शत्रुरपि विद्याबलेन आन्वीक्षिकीत्रयीवातदण्डनीतिलक्षणराजविद्याचतुष्टयबलेन, विभवेन विभूत्या, पराक्रमेण पौरुषेण, बलवान् चिन्त्यः। हि यतः महान् विमर्दः सङ्ग्रामः । दण्डारणिप्रकृति: अन्तरुत्थः अग्निरिव । उभयोस्तापं तनोति ॥ वसन्ततिलका वृत्तम् ॥
यस्य शौर्यस्य धनस्य कीर्तेर्वाग्देवतायाः सततं श्रियश्च ।
मध्यस्थभावेन कृताभिवृद्धिर्विभीषणः किं विदितो न भीष्मः ॥ ३५ ॥ नयस्येति ॥ भीष्मः भयजनकः । विभीषणो रावणानुजः ॥ भारतीये - विभीषणः विशेषेण भयानकः । भीष्मः कौरवपितामहः ॥ उपजातिः ॥
त्वं श्रीमहामङ्गल कुम्भकर्ण कन्याकुमारं वर वीरलक्ष्म्याः ।
समं रथो यस्य मनोरथश्च पूर्णस्तथाशासु कथं न वेत्सि ॥ ३६ ॥
स्वमिति ॥ हे श्रीमहामङ्गल, हे वीरलक्ष्म्या वर, त्वं कन्याकुमारं कन्येव (?) परिणीतः (?) कुमारस्तादृशं कुम्भकर्णे न कथं वेत्सि । यस्य रथो मनोरथश्च समं युगपदाशासु दिक्षु पूर्णः ॥ भारतीये – हे कुम्भ गजमूर्धीश प्रधान, कन्याकुमारम् अपरिणीतायामेव कुन्त्यां सूर्याजातम्, कर्णम् राधेयम् ॥
द्विषन्मारीचोद्यप्रबलरथवेगो दिशि दिशि
स्वयं गर्जन्द्रोणो रणशिरसि केनाथ विधृतः । सदाप्युच्छ्रासेनोच्छ्वसिति भुवनं यस्य सकलं
कैर्वा दुर्योधन इह बलेनेन्द्रजिदसौ || ३७ ॥
द्विषदिति ॥ अद्य एतावत्कालपर्यन्तम्, द्विषन् प्रबलरथवेगः प्रबलो रथस्य वेगो यस्य तादृक् सन् दिशि दिशि द्रोणो मेघ इव स्वयं गर्जन् मारीचो रावणमातुलः, रणशिरसि सग्रामभूमौ केन विधृतः । न केनापि । यस्योच्छ्रासेन सकलं भुवनमपि सदोच्छ्रसिि सोऽसौ दुर्योधनो दुःखेन योद्धुं शक्य इन्द्रजिद् रावणात्मज इह सङ्ग्रामे कैर्बलेन वार्यः ॥ भारतीये – द्विषन्मारी शत्रुनाशी चोद्यप्रबलरथवेगः चोद्य आश्चर्यविषयः प्रबलो रथस्य वेगो यस्य तादृक् सन् दिशि दिशि स्वयं गर्जन् । द्रोणः कौरवाचार्यः । बलेन शरीरसामर्थ्येन । इन्द्रजित् इन्द्रस्य जेता । दुर्योधनो गान्धारीपुत्रः || शिखरिणी वृत्तम् ॥
स