________________
११ सर्गः]
द्विसंधानम् ।
१२१
य इति ।यो रावणः एषां रामस्य (प्रभुत्वाद्वहुवचनम्) प्राज्यं प्रौढं नार्याचं सीताप्रधानमध्यक्षं सर्वविख्यातं साम्राज्यम् । सीताव्यतिरेकेणायोध्यायां पुनर्गमनाभावः सूचितः । अग्रहीत् तं रावणं किं त्वं नो वेत्सि । सोऽयं रावणो माधवेन लक्ष्मीपतिना श्रीरामेणाहतो मारितस्त्वया द्रष्टव्यः । अन्येन केन साध्यः ॥ भारतीये हे आर्य, आयं प्रधानमेषां नोऽस्माकमध्यक्षं प्रत्यक्षम् । श्रीरामेण श्रीरामा रमणी यस्य तेन, सश्रीरामेण श्रिया गमेण बलभद्रेण सहितेन माधवेन नारायणेन । अयं जरासंधः ॥ ।
दीप्यानिष्टं यस्य निष्टब्धमारं ख्यातोऽवद्यन्यश्चरित्रैरवद्यम् । युष्मादृक्षा बाहवो यस्य पक्षास्तत्रैलोक्यं जय्यमस्यावलोक्यम् ॥ ३० ॥ दीप्त्येति ॥ यस्य दीप्त्या का आरं मणीनां समूहः कर्म अनिष्टं यथा स्यात्तथा निष्टब्धं निष्टप्तम् निरस्तम् यश्चरितैराचरणैरवा गर्यमवद्यन्नवखण्डयन् ख्यातः प्रसिद्धः, यस्य युष्मादृक्षाः पक्षा बाहवो वर्तन्ते, तत् तस्मादस्य रामस्य कृष्णस्य वा जय्यं जेतु शक्यं त्रैलोक्यमवलोक्यं विचारणीयम् ॥
इतीदमाकर्ण्य स पावनंजयेरतोऽत्रपार्थस्य विरित्सया रिपोः । उदीर्णमुच्चैःफलदोहलायुधस्तथासदृक्षः पुनरब्रवीद्वचः ॥ ३१ ॥ इतीति ॥ अतोऽनन्तरम्, फलदोहलायुधः फले विपक्षक्षोदलक्षणे दोहलमायुधं यस्य तादृक्, स ऋक्षो जाम्बव इत्युक्तप्रकारेणात्रपार्थस्य न त्रपामर्थयते तादृशः पावनंजयः पवनंजयः केसरी तत्पुत्रस्य रिपोर्विरित्सया मारणेच्छयोच्चैरतिशयेनोदीर्णमुक्तमिदमाकर्ण्य पुनः तथा सत् समीचीनं वचोऽब्रवीत् ॥ भारतीये-असदृक्षोऽनुपमो जये रतः उच्चैःफलद उच्चैःफलानि ददाति तादृक् हलायुधो बलभद्रः । पावनं पवित्रम् ॥ वंशस्थं वृत्तम् ॥
आक्रीडशैलाः कुलपर्वतास्ते वाप्यः समुद्रा जगदङ्गणं तत् । दिशः समस्तास्तव लङ्घनानां भवन्ति कीर्तेरपि न प्रभूताः ॥ ३२ ॥
आक्रीडेति ॥ तव कीर्तेस्ते जगद्विख्याताः कुलपर्वताः, आक्रीडशैलाः क्रीडाक्षोणीधराः, समुद्राः, वाप्यः क्रीडाकमलदीर्घिकाः, तत् जगदङ्गणम् समस्ता दिशः, लङ्घनानामनर्गलफलकेलीनां प्रभूताः प्रचुराः न भवन्ति ॥ उपजातिः ॥
बलीयसोऽपि द्विषतां निहन्तुरवद्यवृत्तेरपि कीर्तिभाजः । मातेव नीतिर्विपदां निहन्त्री नेया न सा कामदुघावधूतिम् ॥ ३३ ॥ बलीयस इति ॥ बलीयसः अतिशयेन गजतुरंगमानुचरचरणलक्षणबाह्यशक्तित्रयलक्षणाभ्यन्तरबलवतः द्विषतां शत्रूणां निहन्तुः, अवद्यवृत्तेः निरवद्याचरणशीलस्य, अपि कीतिभाजः तव त्वया, कामदुधा कामधेनुः, माता इव विपदां निहन्त्री सा नीतिः अवधूतिमवधारणाम् न नेया । कर्मणि प्रधाने प्रत्ययः । 'कृत्यानां कर्तरि वा' इति षष्ठी ॥
१६