Book Title: Dwisandhanam
Author(s): Dhananjay, Kashinath Pandurang Sharma,
Publisher: Nirnanysagar Press
View full book text
________________
काव्यमाला।
इति समरुतः शत्यास्तोकं पदं पृथुसंपदः __शमनिरतया वृत्त्या श्रेयस्तरां स्वपतेः श्रियम् । परिणमयितुं दूतोऽवोचत्प्रसह्य रिपुक्षिपां
स न हि सचिवः स्वामिस्वार्थ भनक्ति भरेषु यः ॥ २९ ॥ इतीति ॥ पृथुसंपदः पृथ्वी संपद्यस्याः सकाशात्तस्याः शक्याः सामर्थ्यस्य पदं स्थानम् स लोकप्रसिद्धो मरुतो वायोस्तोकमपत्यं हनूमान् दूतः रिपुक्षिपां शवधिक्षेपं शमनिरतया उपशमप्रधानया वृत्त्या प्रसह्य प्रमृष्य स्वपते रामस्य श्रेयस्तरां श्रियं लक्ष्मी परिणमयितुम् इति वक्ष्यमाणप्रकारेण अवोचत् । हि यतो यो भरेषु स्वामिकार्य भनक्ति स सचिवो न ॥ भारतीये-शक्त्या सामर्थ्येन पृथुसंपदो महासंपत्तेः । अस्तोकमन्यूनम् । पदं स्थानम् । समरुतः समध्वनिः । दूतः ॥ हरिणीवृत्तम् ॥
दशाननोद्दीपनमात्रहेतोस्तत्सज्जरासंधरयाहतस्य । दीपस्य गेहे स्फुरतस्तवापि स्नेहच्युतस्य ज्वलनं कियद्वा ॥ ३० ॥ दशेति ॥ हे दशानन, उद्दीपनमात्रहेतोरुद्दीपनमात्रमेव हेतुर्यस्य तादृशः, धरया पृथ्व्या आदृतस्य,स्नेहच्युतस्य प्रीतिरहितस्य नितरां कठोरहृदयस्य,गेहे स्वमन्दिरे स्फुरतो विजृम्भमाणस्य तव सजरासं सीदति क्लेशं करोतीति सद् द्वेषः, तस्माजातेन राशब्देन । ('आतो धातोः' इत्यनेन क्विबन्तरैधातोराकारलोपे तृतीयान्तम् ।) आस अधिक्षेपो यत्र ज्वलनकर्मणि यथा स्यात्तथा तत् ज्वलनं कियत् कियत्कालम् । वा यथार्थे दशाननोद्दीपनमात्रहेतोर्दशाया वर्तिकाया आननेन मुखेनोद्दीपनमात्रे प्रज्वलनमाने हेतोः, स्नेहच्युतस्य तैलादिरहितस्य, अत एव सजरासंधरयादृतस्य सता जराया अस्तोन्मुखतामन्दतेजःपरिणतेरासंधः समन्ततो योगो यस्य तादृशा रयेण वेगेनादृतस्य तैलक्षयवशाच्छिखाप्रकम्पवद्वेगेन कटाक्षितस्य, गेहे स्फुरतो दीपस्यापि तज्वलनं कियत् ॥ भारतीये-हे जरासंध, दशाननोद्दीप• नमात्रहेतोर्दशायाः शुभपाकस्यानने प्रारम्भे एव उद्दीपनमात्रकारणस्य । रयाहतस्य वेगाविष्टस्य ॥ उपजातिः॥
अपि दूरमपैष्यती प्रदेशं यदि वा विश्रमितुं त्वयि स्थिता । न वधू वरलिप्सया व्रजन्तीमिव लक्ष्मीमवरोद्भुमर्हसि त्वम् ॥ ३१ ॥ अपीति ॥ यद्यपि लक्ष्मीदरं प्रदेशम् , अपैष्यती अतिक्रमिष्यन्ती वा इव विश्रमितुं श्रमं दूरीकर्तुं त्वयि स्थिता। तथापि वरलिप्सया वजन्ती वधूमिव लक्ष्मी जानकी रा. ज्यलक्ष्मी वावरोढुं त्वं नार्हसि ॥
उक्तेन पौनःपुनिकेन किं वा वेलामिवोर्वी प्रलयाम्बुराशेः । चमू विकर्षन्तमवेक्षमाणः स्वप्ने हरिं पश्यसि तं समक्षम् ॥ ३२ ॥

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230