SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। इति समरुतः शत्यास्तोकं पदं पृथुसंपदः __शमनिरतया वृत्त्या श्रेयस्तरां स्वपतेः श्रियम् । परिणमयितुं दूतोऽवोचत्प्रसह्य रिपुक्षिपां स न हि सचिवः स्वामिस्वार्थ भनक्ति भरेषु यः ॥ २९ ॥ इतीति ॥ पृथुसंपदः पृथ्वी संपद्यस्याः सकाशात्तस्याः शक्याः सामर्थ्यस्य पदं स्थानम् स लोकप्रसिद्धो मरुतो वायोस्तोकमपत्यं हनूमान् दूतः रिपुक्षिपां शवधिक्षेपं शमनिरतया उपशमप्रधानया वृत्त्या प्रसह्य प्रमृष्य स्वपते रामस्य श्रेयस्तरां श्रियं लक्ष्मी परिणमयितुम् इति वक्ष्यमाणप्रकारेण अवोचत् । हि यतो यो भरेषु स्वामिकार्य भनक्ति स सचिवो न ॥ भारतीये-शक्त्या सामर्थ्येन पृथुसंपदो महासंपत्तेः । अस्तोकमन्यूनम् । पदं स्थानम् । समरुतः समध्वनिः । दूतः ॥ हरिणीवृत्तम् ॥ दशाननोद्दीपनमात्रहेतोस्तत्सज्जरासंधरयाहतस्य । दीपस्य गेहे स्फुरतस्तवापि स्नेहच्युतस्य ज्वलनं कियद्वा ॥ ३० ॥ दशेति ॥ हे दशानन, उद्दीपनमात्रहेतोरुद्दीपनमात्रमेव हेतुर्यस्य तादृशः, धरया पृथ्व्या आदृतस्य,स्नेहच्युतस्य प्रीतिरहितस्य नितरां कठोरहृदयस्य,गेहे स्वमन्दिरे स्फुरतो विजृम्भमाणस्य तव सजरासं सीदति क्लेशं करोतीति सद् द्वेषः, तस्माजातेन राशब्देन । ('आतो धातोः' इत्यनेन क्विबन्तरैधातोराकारलोपे तृतीयान्तम् ।) आस अधिक्षेपो यत्र ज्वलनकर्मणि यथा स्यात्तथा तत् ज्वलनं कियत् कियत्कालम् । वा यथार्थे दशाननोद्दीपनमात्रहेतोर्दशाया वर्तिकाया आननेन मुखेनोद्दीपनमात्रे प्रज्वलनमाने हेतोः, स्नेहच्युतस्य तैलादिरहितस्य, अत एव सजरासंधरयादृतस्य सता जराया अस्तोन्मुखतामन्दतेजःपरिणतेरासंधः समन्ततो योगो यस्य तादृशा रयेण वेगेनादृतस्य तैलक्षयवशाच्छिखाप्रकम्पवद्वेगेन कटाक्षितस्य, गेहे स्फुरतो दीपस्यापि तज्वलनं कियत् ॥ भारतीये-हे जरासंध, दशाननोद्दीप• नमात्रहेतोर्दशायाः शुभपाकस्यानने प्रारम्भे एव उद्दीपनमात्रकारणस्य । रयाहतस्य वेगाविष्टस्य ॥ उपजातिः॥ अपि दूरमपैष्यती प्रदेशं यदि वा विश्रमितुं त्वयि स्थिता । न वधू वरलिप्सया व्रजन्तीमिव लक्ष्मीमवरोद्भुमर्हसि त्वम् ॥ ३१ ॥ अपीति ॥ यद्यपि लक्ष्मीदरं प्रदेशम् , अपैष्यती अतिक्रमिष्यन्ती वा इव विश्रमितुं श्रमं दूरीकर्तुं त्वयि स्थिता। तथापि वरलिप्सया वजन्ती वधूमिव लक्ष्मी जानकी रा. ज्यलक्ष्मी वावरोढुं त्वं नार्हसि ॥ उक्तेन पौनःपुनिकेन किं वा वेलामिवोर्वी प्रलयाम्बुराशेः । चमू विकर्षन्तमवेक्षमाणः स्वप्ने हरिं पश्यसि तं समक्षम् ॥ ३२ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy