________________
१३ सर्गः ]
द्विसंधानम् ।
१३९
यद्यप्युक्तं दूतमबध्यं हृदि कृत्वा पत्युः पातश्चेतसि चिन्त्यः स तथापि । काकोलूकं क्रीडदरण्ये भयमुक्तं मत्वा गच्छेत्कस्तदजस्रं शववित्रम् ॥२४॥ यद्यपीति ॥ यद्यपि भवतोक्तम्, तथापि हृदि दूतमबध्यं कृत्वा स पातः पत्युः चेतसि चिन्त्यः । यत्रारण्ये काकोलूकं क्रीडदस्ति शववित्रं कुथितमृतकपूतिगन्धव्याप्तं तदरण्यं भयमुक्तं निर्भयं मत्वा अजस्रं को गच्छेत् ॥
न न्यूनानां भीतिरनूनादिति तस्मात्तत्किं नान्येषामपि मान्याद्भयमस्ति । भृङ्गस्याङ्गक्षोभसहोऽन्यं मदमुज्झन्सर्वाङ्गीणं मुञ्चति हस्ती किमहत्वा २९
नेति ॥ न्यूनानामल्पबलानामनूनादधिकबलाद्, भीतिर्नेति हेतोः किमन्येषां समबलानामपि मान्यात्समस्तजनपूज्यात् तस्मादधिकबलाद् तद् भयं नास्ति । अपित्वस्येव भृङ्गस्य भ्रमरस्याङ्गक्षोभसहः सर्वाङ्गीणं मदमुज्झन् हस्ती अन्यं प्राणिनं किमहत्वामार - यित्वा मुञ्चति । अपि तु न मुञ्चति ॥
योऽलंकर्मीणोऽपि स एवं न विवक्षुर्नूनं कालत्राकृतकायस्तव नाथः । स्वामिस्थानीयेन विरुद्धः स मयामा भूमेरन्तं गच्छति भीरुः किमिदानीम्
योऽलमिति ॥ योऽलंकमणः सर्वकार्यसमर्थः । कर्मोत्तरपदत्वेन खः । स्यात् । सोऽप्येवं न विवक्षुः । नूनं निश्चये स्वामिस्थानीयेन स्वामितुल्येन मया अमा साकं विरुद्धः । अत एव कालत्राकृतकायः / कालाय देयः कायो येन तादृक् । 'देये त्रा च' इति त्रा । भीरु स तव नाथ: किमिदानीं भूमेरन्तं मध्यं गच्छति ॥
श्रुत्वा भग्नान्दूत विचेतीकृतवृत्तीन्नाज्ञासीद्वा संप्रति जातो यदिवासौ । कस्मिन्कोऽयं केशवनामा पतितः किं न प्रस्ती मज्जति युद्धेऽसृजि बालः २७
श्रुत्वेति ॥ हे दूत, भवत्स्वामी (मया रणाङ्गणे) भग्नान् विचेतीकृतवृत्तीन् (विपक्षान् ) श्रुत्वा आकर्ण्य (अपि मां) न अज्ञासीत् (किम् ) यदि वा असौ संप्रति अधुना कस्मिन्नप्रसिद्धे जातः । अयं केशवनामा कोऽस्ति । युद्धे प्रस्तीमे द्रवीभूतेऽसृजि रुधिरे पतितः बालः किं न मजति ॥
स व्यात्युक्षीं नाडिविमुक्तै रुधिरौघैरन्त्रस्रग्भिर्व्यत्यभिताडीमपशब्दैः । कृत्वा व्याक्रोशीं च यमस्य द्विजदोला मिच्छत्यारुह्यायमकालेऽपि वसन्तम् ॥
स इति ॥ सोऽयं भवत्स्वामी यमस्य कृतान्तस्य द्विजदोलां दन्तशिबिकामारुह्य नाडिविमुक्तैर्धमनीनिःसृतै रुधिरौघैर्व्यात्युक्षीं परस्परसेचनम्, अन्त्रस्रग्भिर्व्यत्यभिताडीं परस्पराभिताडनम्, अपशब्देर्व्याक्रोशीं परस्पराभिशपनम् च कृत्वाकालेऽसमये वसन्तं होलिकासन्नदिन मिच्छति ॥
,