________________
१३८
काव्यमाला ।
मृत्वा जीवित्वैव च यस्मिन्गुणमेयात्तस्मिन्मर्तुं जीवितुमिच्छेद्गुणगृह्यम् । प्राहुः संपद्व्यापदमस्माद्वनमुच्चैरामो हा नो नायत पाण्डु प्रभवोऽर्थः ॥ १९ ॥
मृत्वेति ॥ जनो यस्मिन्कार्ये मृत्वा जीवित्वा एव गुणमेयात् प्राप्नुयात् । तस्मिन्नेव कार्ये म जीवितुमिच्छेत् । तं गुणगृह्यं गुणपक्षपातिनम्, संपद्व्यापदं प्राहु: । अस्मात्कारणात् नोऽस्माकम्, अर्यः स्वामी, पाण्डुप्रभवः प्रशस्तजन्मा रामः, हा कष्टं वनमुच्चैरतिशयेन न आयत आयासीत् ॥ भारतीये - आम आर्द्रहृदयः । पाण्डुप्रभवो युधिष्ठिरः ॥ मन्दोदर्यामिच्छसि चित्तव्यतिपातं न्याय्यं त्वं वैभीषणमुक्तं न शृणोषि नाद्याप्युच्चैः किंचिदतीतं तव कार्यं गत्वा विष्णुं तं प्रभविष्णुं वरिवस्य २०
,
मन्दोदेति ॥ मन्दोदर्या पमहिष्यां चित्तव्यतिपातमप्रेमतयान्यत्र चेतो नेतुमिच्छसि, न्याय्यं न्यायादनपेतं वैभीषणं विभीषणीयमुक्तं वचनं त्वं न शृणोषि अद्यापि तव किंचित् कार्यमुच्चैरुच्चतरं नातीतम्, (तस्मात् ) प्रभविष्णुं समर्थ तं विष्णुं लक्ष्मणं गत्वोपेत्य वरिवस्य नमस्कुरु ॥ भारतीये – मन्दो हेयोपादेयविवेकविकलस्त्वं दर्या गुहायां चित्तव्यतिपातं चित्तं प्रतिपातयितुमिच्छसि वै निश्चये भीषणं भयानकम् । विष्णुं वासुदेवम् ॥ इत्युक्तेऽस्मिन्पादमुपात्तं मणिपीठात्प्रापय्योरुं सव्यगतासिस्थितदृष्टिः । न्यस्यन्नक्ष्णोरिन्द्रियवर्गं सकलं तु क्षोभात्कायं कोपविवृत्तिं गमय ॥ २१ ॥ सभ्रूयुग्मं वैरविरुद्धं घटयन्नु स्विद्यन्क्रोधक्का थितलावण्यरसो नु । रुद्धः स्थित्वाधोरणमुख्यैर्द्विरदो नु प्रोचे विष्णोरित्यरिरग्निं विवमन्नु॥२२॥ ( युग्मम्)
इतीति ॥ अस्मिन् वाक्ये इत्युक्तरीत्योक्ते सति, स विष्णोर्लक्ष्मणस्य वासुदेवस्य अरी रावणो जरासंधो वा, उपात्तमाकृष्टं पादं मणिपीठादूरुं प्रापय्य सव्यगतासि स्थितदृष्टिः सव्यगतेऽसौ कृपाणे स्थिता दृष्टिर्यस्य तादृक् सकलमिन्द्रियवर्गमक्ष्णोर्न्यस्यन् क्षोभात् कायं कोपविवृत्तिं गमयन् श्रूयुग्मं वैरविरुद्धं घटयन् स्विद्यन् क्रोधक्काथितलावण्यरसः कोपोत्कलितलावण्यरसः आधोरणमुख्यैर्हस्तिपकमुख्यै रुद्धः द्विरद इव । अग्निं वमन् सर्वत्र नु वितर्के इत्थं तर्क्यमाणः सन् स्थित्वा स्थितो भूत्वा इति वक्ष्यमाणं प्रोचे प्रोक्तवान् ॥
प्राणान्कृत्वान्यत्र कथंचित्तव कार्यं केनाप्यन्येनाविशतैतद्यदि वोक्तम् । भाषा नैषा ते ननु मत्तस्य विलापं श्रुत्वा मद्यस्यैष न तस्येत्यविचार्यम् २३
प्राणानिति ॥ कथंचिन्महाकष्टेन प्राणान् अन्यत्र कृत्वा त्यक्त्वा तव कायमाविशता प्रविशता केनाप्यन्येनोक्तम्, यदि वा त्वयोक्तम्, एषा ते तव भाषा न, ननु अहो मत्तस्य भवत्प्रभोर्विलापं श्रुत्वा एष विलापो मद्यस्य, न तस्य पुरुषस्य, इति हेतोरविचार्यम् ॥