SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः ] द्विसंधानम् । एवं वाक्यं विष्टरविष्टस्तमवोचद्यत्रानुक्तं नापि दुरुक्तं स मनोज्ञः । कालान्तेऽपि क्षोभमगच्छन्गुरुसत्त्वः पारावारः सोऽयमपूर्वश्विरदृष्टः ॥ १९ ॥ दीर्घेत्यादि ॥ दीर्घन्यस्तं दीर्घे न्यस्तं हस्तम् अधिष्ठायुकम्, अवष्टभ्योपविष्टम्, ईषपीठीबद्धालाननिषण्णद्विपशोभमीषत् पीठ्यां पूर्वे बद्धस्य पश्चादालाननिषण्णस्य द्विपस्येव शोभा यस्य तम् । भूभृतो नरेन्द्रा गिरयश्च । पादं चरणं किरणं वा । चामरभारैः प्रकीर्णकसमूहैः । देवगणैस्तु पातं पादप्रणामम् । वक्षसि वाचि स्थितिमत्योः श्रीवाग्देव्योर्लक्ष्मीसरस्वत्योः वास्तुकसीमा वसतिमर्यादा इव कण्ठे हारं वहन्तम्, लोलां मुक्तामालां मन्मथदोलामिव । बिभ्राणाभिर्वारवधूभिः परिविष्टं परिवेष्टितं तं रावणं जरासंधं वा । यत्र वाक्ये अनुक्तं विवक्षितं शिष्टं दुरुक्तमसंबद्धमयोग्यं वापि न, एवं वाक्यमवोचत् ॥ तेन सोऽयं रावणो जरासंधो वा कालान्तेऽपि क्षोभम् अगच्छन् गुरुसत्वः गरिष्टतिमिंगिलादिजीवो महाबलो वा अपूर्वः पारावतः समुद्र इव चिरदृष्टः चिरं दृष्टः ॥ वृत्तस्कन्धः पत्रसमृद्धः शुचिशाखस्त्वं यैर्दृष्टः कामफलानां वितरीता | संनिर्ध्यातः कल्पतरुस्तैर्न च यैस्तैः प्रज्ञाचक्षुर्विक्रमशीलः परिपाता ॥ १६ ॥ वृत्तेति ॥ त्रृत्तस्कन्धः वृत्तौ स्कन्धौ यस्य स उन्नतांसः, वर्तुलबुनः । पत्रसमृद्धः वाहनाढ्यः, पर्णबहुल: । शुचिशाखो निर्लाञ्छनसोदरोदरजादिः, अघुणाहतशाखः । कामफलानामभिलषितफलानां वितरीता दाता । कल्पतरुः कल्पितदाता, कल्पद्रुमश्च । प्रज्ञाचक्षुर्बाह्यचक्षूरहितः शास्त्रज्ञानेक्षणः । विक्रमशीलः पराक्रमशीलः पक्षिक्रमणाधिकरणशीलः । परिपाता प्रतिपालकः परितः पादैः पिबति स वा ॥ १३७ " सर्वस्यास्मिञ्जन्मनि जातस्य जनस्य द्वेषो दोषे प्रेम गुणे चेति निसर्गः । दूष्यो गुण्यः स्याच्च स येनाचरितेन प्रायस्तद्वेवेक्ति न कश्चित्कुरुते वा १७ · १८ सर्वस्येति ॥ अस्मिञ्जन्मनि संसारे जातस्य सर्वस्य जनस्य दोषे द्वेषः, गुणे प्रेम, इति निसर्गः स्वभावः । येनाचरितेन स जनो दूष्यः गुण्यश्च स्यात् तत्कर्म प्रायः कचिन्न वेवेक्ति जानीते न वा कुरुते ॥ अर्थान्प्राणान्वान्विनयन्ते गुणहेतोस्तत्तद्वद्भ्यस्तद्यदि दत्त्वा गुणिनः स्युः । छेदः कोऽयं तद्ब्रज सीतोपनयेन श्रीसंपत्त्योः स्थावरभूतां गुणवत्ताम् ॥ १८ ॥ अर्थानिति ॥ जना गुणहेतोः स्वान् अर्थास्तथा प्राणान् विनयन्ते, यदि तद्वयो गुणिभ्यः तत् अर्थादि दत्त्वा गुणिनो भवेयुः, तर्हि अयं (तव) करछेदो हानि:, तत्तस्मात्कारणात् त्वं सीतोपनयेन जानकीसमर्पणेन पृथ्वीसमर्पणेन वा श्रीसंपत्त्योः श्रिया हिरण्यादिस्वभावायाः संपत्तेर्गोमहिष्यादिस्वभावायाश्च स्थावरभूतां स्थितिकारणं गुणवत्तां व्रज गच्छ ॥
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy