________________
१३६
काव्यमाला ।
अलकाराज्यविभोगं तदीयनगरीराज्यभोगं त्यक्त्वा, तस्थौ तत् कारागारम्, निचचाये दृष्टवान् ॥ भारतीये - असौ श्रीशैलो यत्र अस्त्री अस्त्रयुक्तः, अशुभवान्, धनदः बन्धनात्पूमुत्कोचदाता अपि द्वेषी शत्रुः ईशसमेत्या ईशस्य जरासंधस्य समेत्या संमुखागमनेन, अलंकाराज्यविभोगम् अलंकारा भूषणानि आज्यवयः 'संभोगलालसा नित्यं घनपीनपयो. धरा । षोडशाब्दा तु या नारी बुधैराज्यविरुच्यते ।।' इत्युक्त्या कमनीयकामिन्यः भोगचैतेषां समाहारं त्यक्त्वा शोके उद्वेगे च मूर्छति दुःस्थम्, अनयमयरहितं च यथा स्यातथा तस्थौ ॥
सारङ्गर्द्ध संगतसत्वैरथयुक्तं रम्यं राजच्छत्रवितानैर्बहुफेनैः । बद्धोत्सेधं नीरविशालं नृपमार्ग गच्छन्गङ्गासागरसङ्गं स्मरति स्म ॥ १
11
सारङ्गेति ॥ स हनुमाञ्श्रीशैलश्च, सारङ्गर्द्ध गजेन्द्रसमृद्धं रथयुक्तं संगतसत्वैः सं समीचीनं न्यायमार्गानुयायि गतं गमनं येषां तैनीतिमार्गानुसारिभिः सत्वैः प्राणिभी रम्यं मनोहरम्, बहुफेनैः फेनकल्पैः डिण्डीरसदृशैः, राजच्छत्रवितानैः राज्ञामातपत्र समूहैः शोभमानैरातपत्रैश्चन्द्रोपकैश्च वा बद्धोत्सेधं विरचितशोभम्, नीरविशालं शालशृङ्गाणामत्युन्नतत्वान्निष्क्रान्तसूर्यप्राकारम्, नृपमार्ग गच्छन् सन्, सारङ्गर्द्ध चातकव्याप्तम्, अथ पक्षान्तरे । संगतसत्त्वैर्मिलितमीनादिजीवैर्युक्तम्, राजच्छत्रवितानैः राजत् छत्त्रवत् वितानं येषां तैः बहुफेनैः प्रचुरडिण्डीरैः बद्धोत्सेधम्, नीरविशालं नीरवीणां जलपक्षिणां शालो गमनं यत्र तादृशं गङ्गासागरसङ्गम् स्मरति स्म ॥
सांध्यं रागं रत्नमयूखैर्विदधानं क्षीराम्भोधेः सैकतमुद्यन्मकरीकम् । सैंहं पीठं निर्जयदास्थायुकमुच्चैरक्षोभीतं मागधसेव्यं व्यलुलोकत् ॥ ११ ॥
सांध्यमिति ॥ रत्नमयूखैः सांध्यं संध्याभवं रागं विदधानम्, उद्यन्मकरीकम् उद्यन्तो मकरीका यत्र तं क्षीराम्भोधेः सैकतं सिकतामय प्रदेशं निर्जयत् उच्चैरुन्नतं सैंहं पीठं सिंहासनम्, आस्थायुकम्, रक्षोभीतं राक्षसैः परिवारितम्, मागधसेव्यं बन्दीजनस्तुत्यम् ( रावणं हनुमान् ) व्यलुलोकत् ॥ भारतीये – अक्षोभी निःक्षोभः मागधसेव्यं मागधानां राजविशेषाणां सेव्यं तं जरासंधम् ॥
दीर्घन्यस्तं हस्तमधिष्ठायुकमीपत्पीठीबद्धालाननिषण्णद्विपशोभम् । भूभृच्चूडाकोटिषु पादं निदधानं रागाक्रान्तं भानुमिवोच्चैरुदयस्थम् ॥ १२ ॥ स्त्रीणां शुक्लैः सामिकटाक्षैः सह पातं संगच्छद्भिश्चामरभारैः कृतशोभम् । कल्लोलानां मीनविलासैर्मिलितानां नुन्नं वेलाशैलमिवाब्धेः समवायैः॥ १३ ॥ श्रीवाग्देव्योर्वक्षसि वाचि स्थितिमत्योः कण्ठे हारं वास्तुकसीमेव वहन्तम् । मुक्तामालां मन्मथदोलामिव लोलां बिभ्राणाभिर्वारवधूभिः परिविष्टम् ॥ १४ ॥