________________
१३ सर्गः]
द्विसंधानम् ।
१३५
मूहः, किं वा अश्वीयमश्वसमूहः, इयं वारिधिवेला समुद्रवेला उत परिखा, इमे जालोलासितधूमाः सौधाः किमु श्वेता मेघा नीलान् वमन्ति' इत्येवंरीत्या शशङ्के ॥ निर्बद्धोच्चैरावतमुच्छीकर सेकं दृष्ट्वास्योच्चैरावणतुङ्गद्विपशालम् । जाता चेतस्यम्बुदबन्दीगृहशङ्का पुण्योपात्ता किं प्रभुशक्तिर्न करोति ॥ ६ ॥
निर्बद्धेति ॥ निर्बद्धोच्चैरावतं निर्बुद्ध आलानित उच्च ऐरावतो यत्र तत्, उच्छीकरसेकम् उत् ऊर्ध्वं शीकराणां तुण्डोन्मुक्तजलकणानां सेको यत्र तत्, रावणतुङ्गद्विपशाल रावणस्य तुङ्गानां द्विपानां गजानां शालाम् । 'विभाषा सेना -' इति क्लीबता । दृष्ट्वा अस्य हनूमत: चेतसि अम्बुदबन्दीगृहशङ्का जलदानां कारागृहशङ्का उच्चैरत्यर्थ जाता । पुण्यो - पात्ता प्रभुशक्तिः किं न करोति ॥ भारतीये – निर्बद्धोच्चैरावतं निर्बद्धा उच्चा इरावतीभवा गजा यत्र तत्, उच्चैरावणतुङ्गद्विपशालम् उच्चामैरावणवत्तुङ्गानां द्विपानां शालाम् । अस्य श्रीशैलस्य ||
दृष्ट्वा दम्याञ्शृङ्खलबन्धेन किशोरानेवं ह्येतैः संप्रति पीडामपि नीतैः । दम्यन्तेऽन्ये स्वाम्युपकारैर्नतु नाथा जात्यस्येत्थं वृत्तिरुदात्तेति स मेने॥७॥
दृट्वेति ॥ स हनूमान् श्रीशैलो वा दम्यान् किशोरान् अश्वबालकान् दृष्ट्वा 'शृङ्खलबन्धेन पीडां कदर्थनाम् नीतैर्गतैरपि एतैरश्वबालैः कर्तृभिः स्वाम्युपकारैः करणैः संप्रति सांप्रतम् हि निश्चयेन अन्ये शत्रवः एवं स्वमदनप्रकारेण दम्यन्ते' नतु नाथाः स्वामिनः । जात्यस्य इत्थमनेन प्रकारेण उदात्तोत्कटा वृत्तिरिति मेने ॥ उद्यत्कक्षा गोपुरशालध्वजमाला मत्तालम्बालम्बनबाला समृदङ्गाः । तस्याधावत्तुङ्गतुरंगावबभासे राजन्यानां कन्दुकभूमिर्नगरी वा ॥ ८ ॥
उद्यदिति ।। तस्य हनूमतः श्रीशैलस्य च राजन्यानां राजपुत्राणां कन्दुकभूमिः कन्दुकक्रीडाभूमिः अथवा नगरी, उद्यत्कक्षा उद्यती कक्षा गोपुरप्राकारान्तर्भूमिर्यस्याः, गोपुरशालध्वजमाला गोपुरेषु कृत्स्नद्वारेषु शालेषु प्राकारेषु ध्वजानां माला यत्र, मत्तालम्बालम्बनबाला मत्तालम्बानामवष्टम्भन काष्ठानामालम्बनं यासां ता बाला मुग्धा यत्र, समृदङ्गा समृद् अङ्गं यस्याः समर्दला वा, आधावत्तुङ्गसुरंगा आधावन्तस्तुङ्गास्तुरंगा: शीघ्र - गामिनोऽश्वाश्च यस्याम्, एतादृक् अवबभासे ॥ यत्रोद्वेगे मूर्छति शोकेनयमस्त्री तस्थौ दुःस्थं चाशुभवानीशसमेत्य । त्यक्त्वालङ्काराज्यविभोगं धनदोऽपि द्वेषी कारागारमसौ तन्निचचाये ॥ ९ ॥
यत्रेति । असौ हनुमान् यत्र कारागारे यमस्त्री कृतान्तभार्या उद्वेगे शोकेन मूर्छति वृद्धिं याति सति दुःस्थं यथा स्यात्तथा, ईशसमेत्या शिवयोग्या भवानी च आशु शीघ्रम्, असौ द्वेषी धनदोऽपि लङ्काराज्यविभोगमेतन्नगरी राज्यविभोगम् ' यमक श्लेषचित्रेषु बवयोडेलयोर्न भिद् । नानुस्वारविसर्गौ च चित्रभङ्गाय कल्पितौ ॥' इति वचनेनानुस्वारत्यागेन