________________
१३४
काव्यमाला।
लोकप्रसिद्धम्, दूरक्षः दुष्टानि रक्षांसि यत्र तदराते रावणस्य स्थानमभियातः ॥ भारतीयेवै निश्चये देह्यर्थ पुरुषार्थ, स्थित्या निरूढं दौत्यं प्रजिहानः, दूरक्षः दुःखेन रक्षितुं शक्यः श्रीशैलस्तन्नामा दूतः अरातेर्जरासंधस्य ॥ सर्गेऽस्मिन्मत्तमयूरं छन्दः ॥ दुर्ग राष्ट्र तीर्थमरण्यं व्रजमायञ्जानशत्रोश्चारमबुद्धः स्वयमन्यैः । स स्वीकुर्वन्कृत्यमकृत्यं व्युपजापैः स्थाने स्थानं स्वप्नमपीच्छन्प्रयतोऽभूत्॥२॥
दुर्गमिति ॥ अन्यैः स्वयमबुद्धो ज्ञात एव शत्रोश्चारं गतिं जानन् , व्युपजापैः सामादिभिरकृत्यमभेद्यममात्यादिकम्, कृत्यं भेद्यं स्वीकुर्वन्नुररीकुर्वन् । [भेदं स्वीकारयन्निति भावः ।] स्थाने निरुपद्रवे देशे स्थानं स्थिति स्वप्नं निद्रामपीच्छन् प्रयतोऽभूत् ।। अध्वान्तेऽसौ चेतति वैरं प्रतिबध्नज्ञाता नीतेः संप्रतिमातामहतापम् । कुर्वन्धैर्येणावजितं तद्रिपुजातं साम्नायोज्य स्वामिनि सर्वसहमेयः ॥ ३ ॥
अध्वान्त इति ॥ नीतेख़तासौ हनूमानध्वान्ते मार्गमध्ये वैरं गर्भिण्यपि मे माता निर्दयेनानेन महेन्द्रेण स्वमन्दिरानिष्कारितेति वैरं चेतसि प्रतिबध्नन् मातामहतापमञ्जनासुन्दरीतातस्य महेन्द्राचलेन्द्रस्य पश्चात्तापम्, संप्रति तत्कालं धैर्येणावजितं तद्रिपुजातं शत्रुसमूह साना आयोज्य स्वामिनि रामे सर्वसहमाज्ञासहिष्णुम्, कुर्वन् सनैयो गतवान् । भारतीये-संप्रतिमाता वर्तमानकालपरिच्छेदकोऽसौ श्रीशैलो दूतः। अध्वान्ते निर्मले चेतसि, महता धैर्येण । आपम् प्रचुरं सजलप्रदेशम् । ऐयः ॥ अव्यालोलङ्कामयमानो यश ओजो वाञ्छन्नुद्यन्नीतिविदार्यप्रियवेषः । प्रेप्सुः शालं राजगृहं तं समतीतश्चक्रे लङ्कामाकुलवृत्तिं परमाजौ ॥ ४ ॥
अव्यालोलमिति ॥ अव्यालोऽदुष्टः, लङ्कां तनामनगरीमयमानो गच्छन् सन्, उद्यन्नीति उद्यन्ती नीतियत्र तादृक् यथा स्यात्तथा यश ओजः क्षात्रतेजश्च वाञ्छन् सन्, प्रियवेषः सतामाकारधारी, तं राजगृहं राजमन्दिरं प्रेप्सुः प्राप्तुमिच्छु:, शालं प्राकारं विदार्य समतीतः समतिक्रान्तः सन् हनूमान् आजौ संगरे परमतिशयेन लङ्कामाकुलवृत्ति चक्रे ॥ भारतीये-अव्यालोलं स्थिरतरम् , यश: कामयमानः, ओजो वाञ्छन् , उद्यनीतिविद् उद्यती नीतिं वेत्ति स, आर्यप्रियवेष आर्याणां प्रियो वेषो यस्य तादृक्, राज. गृहं तन्नामानं जलाशयं समतीतः संप्राप्तः स दूतः शालं मत्स्यविशेषम् आजौ समरभूमौ परं केवलं प्रेप्सुः तं शालं कामाकुलवृत्तिमभिलाषाकुलितचित्तम् अलमत्यर्थे चक्रे । यद्वा तं जलाशयं समतीतः राजगृहं राजमन्दिरम् उद्यन् गच्छन् शालं प्राकारं प्रेप्सुः परं शत्रुम् आजौ समरे कामाकुलवृत्तिमलं चक्रे ॥ दारुणाकारोऽयमुताहो रथकट्या किं वाश्वीयं वारिधिवेला परिखा श्वित् । सौधा जालोल्लासितधूमाः किमु मेधाः श्वेता नीलान्कि स वमन्तीति शशङ्के ५ .. दार्विति ॥ स हनूमान् दूतश्च 'अहो आश्चर्ये अयं दारुप्राकारः, उत रथकट्या रथस