________________
१२ सर्गः] द्विसंधानम् ।
१३३ योगतामापन्नेषूदासीनत्वावलम्बिमुनि स्तुवे स्तवीमि । धीमन्तः स्थितिजननिरोधव्यतिकरं ध्रौव्योत्पादव्ययसंबन्धं साधु पूर्वापरप्रमाणबाधापरित्यागेन प्रतीतिमन्दिरं यथा स्यात्तथा सदा सर्वदा पश्यत् । इदमेव त्रितयमाचार्योपाध्यायसाधुलक्षणं त्रिपुरुष हरिहिरण्यगर्भहरा. त्मकं प्राहुः । शीलात्प्रच्यवमानानां शीले प्रत्यवस्थापकत्वात् विनेयानां कारुण्यबुद्ध्या प्रतिपालनात् विविधतपसा विविधकर्मभस्मीकरणाद्ब्रह्मविष्णुहरात्मकत्वमिति भावः ॥ शिखरिणी ॥ इत्युच्चकैः स्तुतिशतं विरचय्य विष्णु मालिखन्सुरगणैर्जहसे शिलायाम् । द्वीपाम्बुराशिकुलपर्वतदेवलोकलोकान्तरेषु लिखितं किल केन वेति ॥११॥
इतीति ॥ सुरगणैर्देवगणैरित्येवमुच्चकैरतिशयेन स्तुतिशतं विरचय्य रचयित्वा शिलायां नाम अलिखन् । विष्णुः 'द्वीपाम्बुराशिकुलपर्वतदेवलोकलोकान्तरेषु द्वीपसमुद्रमेर्वाद्यद्रिस्वर्गमनुष्यादिलोकेषु केन वा किल आश्चर्य लिखितम्' इति जहसे हसितः ॥ वसन्ततिलका ॥ इत्थं हिरण्यकशिपूदयपक्षपाती नारायणः पथि बभूव निवर्तमानः । सिद्धाभिपूजनविशेषविवृद्धतेजाः श्रीवर्धनं जयकरं विनयं निराहुः ॥ १२ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये ल
क्ष्मणवासुदेवयोः कोटिशिलोद्धरणकथनो नाम द्वादशः सर्गः समाप्तः । इत्थमिति ॥ इत्थमनेन प्रकारेण, सिद्धाभिपूजनविशेषविवृद्धतेजाः सिद्धाभिपूजनेन विशेषेण स्वाभाविकतेजस आधिक्येन विवृद्धं तेजो यस्य तादृक्, हिरण्यकशिपूदयपक्षपाती हिरण्यस्य स्वर्णस्य कशिपोासाच्छादनयोः । उदयस्याभ्युदयस्य पक्षपातोऽस्ति यस्य ताक्, नारायणो लक्ष्मणः पथि मार्गे निवर्तमानो बभूव । युक्तं चैतत् । विनयं नम्रतां श्रीवर्धनं संपद्वर्धकं, जयकरं निराहु/मन्तः ॥भारतीये-हिरण्यकशिपूदयपक्षपाती हिरण्यकशिपोर्दैत्यस्य उभयपक्षं पातयति तच्छीलः । नारायणः कृष्णः॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां लक्ष्मणवासुदेवयोः कोटिशिलोद्धरणकथनो
नाम द्वादशः सर्गः।
त्रयोदशः सर्गः । स श्रीशैलोदीर्णबलेन प्रजिहानः स्थित्यादौत्यन्नामं निरूढं हरिणोक्तः । वैदेह्यर्थ योजयतको व्यवसायं तद्रक्षः स्थानमरातेरभियातः ॥ १ ॥ __स इति ॥ स्थित्यादौ जन्मकालमारभ्य, निरूढमागोपालाङ्गनाविख्यातम् , त्यत् 'हनूमान्' इति नाम प्रजिहानः प्राप्नुवानः, अदीर्णबलेन पुष्टसामर्थ्येन, वैदेह्यर्थे सीतार्थ व्यवसायं निश्चयं योजयता प्रेरयता हरिणा लक्ष्मणेनोक्त एक एकाकी, स श्रीशैलो हनूमान्, तत्