SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १३२ काव्यमाला । कस्तूरीपरिमलमप्यनुभवन्नसौ गन्धवहो वायुः । वनेचर इव । तं लक्ष्मणं कृष्णं च सभयं यथा स्यात्तथाभिययौ ॥ उत्खातरोपणमिदं निजमेव पुंसां न्याय्यं व्रतं तदनुपालय पालनीयम् । इत्यग्रजस्य वचनं प्रतिमान्य तुष्टस्तुष्टाव सिद्धपदपङ्क्तिमसावुपेन्द्रः ॥४७॥ उत्खातेति ॥ निजं कुलाचारप्राप्तम्, न्याय्यं न्यायादनपेतं पुंसां नराणां पालनीयमत्याज्यमुत्खातरोपणमुत्खातानां रोपणमिदं तत् व्रतमनुपालयेत्यग्रजस्य रामस्य बलभद्रस्य वा वचनं प्रतिमान्य तुष्टः प्रसन्न उपेन्द्रो लक्ष्मणः कृष्णश्च सिद्धपदपति मुक्तश्रेणी तुटाव ॥ वसन्ततिलकावृत्तम् ॥ योऽधःस्थितोऽशोकतरोरभासीत्तदृक्षमूलीयमहाव्रतस्य । फलं यतिभ्यः प्रथयन्निवार्हन्वन्द्यः सुराणां स पुनः पुनातु ॥ ४८ ॥ योऽध इति ॥ यस्तदृक्षमूलीयमहाव्रतस्याशोकवृक्षमूलार्थस्य महाव्रतस्य फलं यतिभ्यः प्रथयन् कथयन् इवाशोकतरोरधःस्थितः सन्नभासीत् । सुराणां देवानां वन्द्योऽर्हन् पुनः पुनः पुनातु ॥ उपजातिः ॥ बोधाम्भोधौ यः समाधीन्दुवृद्धे सिद्धे रुच्यं कर्तुमिच्छन्निवर्द्धिम् । निन्ये मान्यं साधु रत्नत्रयं नः सिद्धः सिद्धां कार्यसिद्धि करोतु ॥४९॥ बोधेति ॥ यः समाधीन्दुवृद्ध समाधिनेन्द्रियगोचरेण क्रोधमानमायालक्षणैर्वा जनितकालुष्यपरित्यागाच्चेतसः प्रसन्नतयैवेन्दुना चन्द्रेण वृद्धे बोधाम्भोधौ बोधेऽवगमविगमसजन्मनि ज्ञानातिशये एव समुद्रे सिद्धेर्मुक्तिलक्षणायाः रुच्यं भूषणं कर्तुमिच्छन्निव मान्यं माननीयं रत्नत्रयं सम्यग्दर्शनज्ञानचारित्रस्वभावं साधु यथा स्यात्तथा ऋद्धिं वृद्धि निन्ये, स सिद्धो नोऽस्माकं सिद्धां पूर्वापरप्रमाणबाधापरित्यागाद्युक्तियुक्तचेतसां पुंसां प्रतीतिशिखर. मारूढाम् कार्यसिद्धिं कार्यस्य मोक्षलक्षणस्य सिद्धि प्राप्ति ज्ञप्तिं वा करोतु ॥ शालिनी ॥ तथाचार्य चर्यापरिणतमुपाध्यायमखिल श्रुतोपाध्यायं तं बहुविधतपःसाधनपरम् । स्तुवे साधु साधु स्थितिजननिरोधव्यतिकरं ___ सदा पश्यत्प्राहुत्रितयमिदमेव त्रिपुरुषम् ॥ ५० ॥ तथेति ॥ तथा अर्हन्सिद्धयोः स्तवनप्रकारेण, चर्यापरिणतं चर्याभिनिदर्शनचरणतपोवीर्याचाररूपाभिः पञ्चभिः परिणतमात्मस्वरूपोपलब्धिलब्धमाचार्य सूरिम्, तथाअखिलश्रुतोपाध्यायं समस्तागमोपदेष्टारम्, उपाध्यायं पाठकम् ,तथा-बहुविधतपःसाधनपरं बहुविधं बाह्याभ्यन्तरप्रकारं यत् तपश्च, तत्साधनं हेयं हेयतया, उपादेयमुपादेयतया, विवेचकं ज्ञानं च तत् परं परमोत्कर्ष प्राप्तं यस्य तम्, साधु संसारसंसरणकारणसरागपरिणामबहिर्मुखतयान्तर्मुखाकारतयात्मानमवलोकमानं तद्रूपतया परिणमन्तं बहिर्भवेषु सं.
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy