SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३ सर्गः] द्विसंधानम् । १४१ उक्तेनेति ॥ अथवा पौनःपुनिकेनोक्तेन पुनःपुनरुक्त्या किम् । उर्वी विकर्षन्ती प्रलयाम्बुराशेः प्रलयसमुद्रस्य वेलामिव चमू विकर्षन्तं तं हरिं स्वप्ने अवेक्ष्यमाणस्त्वं समक्षं प्रत्यक्षं पश्यसि द्रक्ष्यसि ॥ उपजातिः ॥ समातुलानीतनयैः स्वबन्धुभिः प्रभो जयत्येष निहत्य ते बलम् । समेध्यलंकारचितं पुरस्तव स्थिरं वनश्चेत्कुरुदेशमीशिता ॥ ३३ ॥ समेति ॥ हे प्रभो, एष हरिलक्ष्मणः, समातुलानीतनयैः समः साधारणः, अतुलोऽनुपमः आनीत उपनीतो नयो यैस्तादृग्भिः स्वबन्धुभिः बिभीषणादिभिः सह ते तव बलं सैन्यं निहत्य जयति जेष्यति सर्वोत्कर्षेण वर्तिष्यते । हे मेध्य, चेद्यदि तव लङ्कारचितं लङ्कादिदर्शनादिभोग्यभोगाभिलाषुकं मनः स्थिरं कार्य तर्हि कुरु । स लक्ष्मणः तव पुरः अग्रे देशं लङ्काख्यम् ईशिता ऐश्वर्येण पालयिष्यति ॥ भारतीये-एष वासुदेवस्ते तव बलं निहत्य समातुलानीतनयैः युधिष्ठिरादिभिः सह स्वबन्धुभिः सह जेष्यति । अलंकारचितमलंकाराभिलाषुकं तव मनः स्थिरं समेधि संभावय सकुरुदेशम् ईशिता ॥ वंशस्थम् ॥ नयस्यावद्यस्य व्यपनयमुखेन स्तुतिकृतौ जनस्यापि क्षान्तिर्भवति वसतिस्तस्य भविता । कथंकारं व्रीडां पतसि पतिदेवत्यचरिते सुरापाने मौनव्रतमिव तदेतत्प्रहसनम् ॥ ३४ ॥ नयस्येति ॥ अवद्यस्य निन्यस्य नयस्य नीतेर्व्यपनयमुखेन निराकरणमुखेन स्तुतिकृतौ स्तुतिकरणे जनस्य प्राकृतस्यापि क्षान्तिः क्षमा भवति ॥ त्वं च व्रीडां विहाय पतिदेवत्यचरिते पतसि चेत् तस्य तव वसतिर्वासः कथंकारं कथं भविता भविष्यति ॥ तदेतत् भावत्कं कर्म सुरापाने मौनव्रतमिव प्रहसनमस्ति ॥ शिखरिणी ॥ अन्तर्बहिः संप्रति कालरात्रौ तवोद्यतायां हरिशस्त्रपातैः । लब्धश्चिरस्येति तनोतु तिर्यग्ज्योत्स्नामकालेऽपि यमाट्टहासः ॥ ३५ ॥ अन्तरिति ॥ हरिशस्त्रपातैलक्ष्मणमुक्तमार्गणपातैः, वासुदेवशस्त्रपतनैश्च । तव राव. णस्य जरासंधस्य वा । अन्तर्बहिः सर्वत्र कालरात्रावुद्यतायां सत्यां सांप्रतं चिरस्य चि. रेण लब्ध इति हेतोर्यमाहासोऽकालेऽप्यनवसरेऽपि तिर्यग् ज्योत्स्ना चन्द्रिकां तनोतु ॥ उपजातिः ॥ इत्युक्त्वासौ तस्य विरागं प्रकृतीनां नानाभाषावेषलिपिज्ञैरवसः । ज्ञात्वा हस्तेकृत्य समस्तं पुरि कृत्यं तस्याः पारंप्राप्य च रम्यं वनमागात् ॥३६॥ इतीति ॥ असौ हनुमान् श्रीशैलश्चेत्येवंप्रकारेणोक्त्वा निगद्य नानाभाषावेषलिपिज्ञैरनेकविधान् भाषाः संस्कृतयावन्यादीः, वेषान् कौलिकसंन्यास्याद्याकारान् , लिपीन् कटद्रविडाङ्गवङ्गादिदेशोद्भवाक्षराकारान् , जानद्भिः, अवसर्दूतैश्चरैस्तस्य रावणस्य ज
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy