SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ४८ काव्यमाला | मम मतिर्बुद्धिः शक्तिर्बलं च अस्ति । तस्मात्त्वम् आगच्छ युद्धं संपादय । स्वं रिपुवंशदावं रिपोर्वशं द्यतः खण्डयतो जनान् अवति रक्षति तं धरोत्थं धराया उत्था उत्थतिर्यस्मात्तम्, दशकं 'सत्यं शौचं तथा शौर्य स्थैर्ये शौण्डीर्यधीरते । क्षमा गम्भीरता चैव नैष्टुर्य पि मन्त्रिता ॥ एतैरवयवैर्युक्तो जिगीषुः पृथिवीपतिः ॥ इत्युक्तलक्षणा दश अवयवा यस्य तमू, मत्तो मत्सकाशात्, प्रतापं कथं न वेत्सि ॥ श्लेषः ॥ इतीरयित्वा हितकम्प वेगं दष्टाधरं स्फारितरक्तनेत्रम् | भ्रूभङ्गजिह्यं कृतसिंहनादं जग्राह कार्य भरतान्वयस्य ॥ ३० ॥ इतीति ॥ असौ शूर्पणखा, कीचकश्च, इत्येवं प्रकारेण, ईरयित्वा अभिधाय, आहितकम्पवेगमारोपितकम्पजवम्, दष्टाधरं चर्वितोष्ठम्, स्फारितरक्तनेत्रम् प्रसारितलोहितलोचनम्, भ्रूभङ्गजिह्यं भ्रूभङ्गमन्दम् कृतसिंहनादं विस्तीर्णसिंहनादम्, यथा स्यात्तथा भरतावयस्य भरतानुजस्य लक्ष्मणस्य, सोमवंश्यस्य भीमस्य च, कायं जग्राह ॥ चकम्पिरे किंपुरुषा भयेन दिशां विनेशुर्नगजा गजाश्च । मर्मप्रहारैः परुषैर्वचोभिस्तयोरभूत्तत्र महान्विमर्दः ॥ ३१॥ चकम्पिर इति ॥ तत्र दण्डकारण्ये तयोर्लक्ष्मणशूर्पणखयोः, मर्मप्रहारैर्मर्मच्छिद्भिः परुषैः कठोरैः, वचोभिः महान् विमर्दो युद्धम् अभूत । तदा किंपुरुषा देवविशेषाः, चकम्पिरे, दिशां गजा नगजा पर्वतजाश्च विनेशुः यद्वा पुरुषा एव किं चकम्पिरे अपि तु किंपुरुषा अपि । नगजा एव गजा किं विनेशुः । अपि तु दिशां गजाः ॥ भारतीये – तत्र विराटभूमौ तयोर्भीमकीचकयोः । तदा पुरुषा युधिष्ठिरादयः किं चकम्पिरे । अपि तु न । दिशां नगजाश्च गजाः । किं विनेशुः । अपि तु न ॥ श्लेषः ॥ - असंस्तुतं प्राप्य ततो निकारं भीमेन तेनोपहतात्मवृत्तिः । देशादयासीन्नियमेन कर्तुं क्षणादसौ विग्रहपीडितानि ॥ ३२ ॥ असंस्तुतमिति ॥ भीमेन भयानकेन, तेन लक्ष्मणेन, उपहतात्मवृत्तिः भग्नस्वरूपा, असौ शूर्पणखा ततो लक्ष्मणतः असंस्तुतमपरिचितं निकारं पराभवं प्राप्य नियमेन अवश्यम् विग्रहपीडितानि युद्धमर्दनानि कर्तुं क्षणादन्तर्मुहूर्तात् देशाद्दण्डकारण्यतः, अयासीत् अपगता || भारतीये – तेन भीमेन वृकोदरेण, असौ कीचकः । ततो भीमतः । विग्रहपीडितानि तपश्चर्यया शरीरकदर्थनानि । देशाद्विराटभूमितः ॥ तथावधूतोऽपकृतिं गतोऽपि जित्वा शेषं संयममेत्य राजा । स वैरसंदेहमयं विहाय न्यायानुवृत्तिं पदवीं प्रपेदे ॥ ३३ ॥ तथेति ॥ सोऽयं राजा लक्ष्मणः, तथा तेन प्रकारेण वधूतो नारीतः शूर्पणखाया: सकाशात् अपकृतिमपकारं गतोऽपि सन् रुषं जित्वा संयमम् एत्य वैरसंदेहं विहाय न्यायानुवृत्तिं नीत्यनुयायिनीं पदवीं मार्ग प्रपेदे ॥ भारतीये - अपकृतिं गतोऽपि स राजा की -
SR No.022649
Book TitleDwisandhanam
Original Sutra AuthorN/A
AuthorDhananjay, Kashinath Pandurang Sharma,
PublisherNirnanysagar Press
Publication Year1895
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy