________________
५ सर्गः]
द्विसंधानम् ।
४९
चकः अवधूतो जटाजूटधारी सन् देहमयं शरीरतुं रसं दुग्धदधिघृतादि वै निश्चयेन विहाय ॥ श्लेषः ॥
स्वजानि कार्याणि निरूप्य हत्यां बलीयसस्तस्य च कौरवेण ।
जिहीर्षता मानधनं बलेन संप्रेरितेनाभ्युदितं खरेण ॥ ३४ ॥
स्वजानीति ॥ बलीयसस्तस्य शम्बुकुमारस्य हत्यां वधे सति कौ क्षितौ स्वजानि कार्याणि आत्मीयानि कृत्यानि रवेण निनादेन निरूप्य निवेद्य कौ क्षितौ रवेण निनादेन मानधनं जिहीर्षता खरेण दूषणज्येष्ठभ्रात्रा रक्षसा संप्रेरितेन बलेन अभि समन्तत उदितं प्रसृतम् । यद्वा बलीयसस्तस्य लक्ष्मणस्य मानधनम् ॥ भारतीये - बलीयसस्तस्य कीचकस्य हत्यां हनने । बलीयसः तस्य वृकोदरस्य वा । मानधनं जिहीर्षता, खरेण तीव्रेण कौरवेण दुर्योधनेन ॥ श्लेषः ॥
आवारितो मध्यगतैः प्रबन्धैराहन्यमानोऽपि कृतावलेपः ।
शब्दायमानः कलहायमानस्तूर्योत्करो दुर्जनमन्वियाय ॥ ३९ ॥
आवारीति ॥ मध्यगतैः उदरस्थितैः, मध्यस्थपुरुषैश्च । प्रबन्धैर्वधीभिश्चर्मरज्जुभिः, निबन्धैश्च । आवारितो नियन्त्रितः, निषिद्धश्च । आहन्यमानः ताड्यमानः अपि कृतावलेपः कृततैलादिलेप:, विहिताहंकारश्च सन् शब्दायमानः ध्वनिं कुर्वाणः, यथेच्छशब्दप्रयोगं कुर्वेश्च । कलहायमानः कलहोद्योगं कुर्वाणः । युद्धकालेषु तूर्ये रागविशेषेण वीरताधिक्यं जायते इति प्रसिद्धिः ॥ तूर्योत्करो वाद्यसमूहः, अन्वियाय अनुकृतवान् ॥
उन्मग्नशङ्खं श्रमफेनयुक्तमावर्तशुद्धं शफराजिलोलम् । आश्वीयमुल्लङ्घनशीलमुद्यच्चक्राम कल्लोल इवाम्बुराशेः ॥ ३६ ॥
उन्मग्नेति ॥ उन्मग्नशङ्खं उन्मनाः प्रव्यक्ताः शङ्खाश्चक्षुः समीपप्रदेशा यस्य तादृक्, उच्छलितकम्बुश्च । श्रमफेनयुक्तं श्रमोत्पन्नफेनपिण्डयुक्तम्, श्रमवत्फेनयुतश्च । आवर्त - शुद्धम् आवर्तैर्ध्रुवशुभमानधैर्यैः शुद्धं समीचीनम्, अम्भोभ्रमशुद्धश्च । शफराजिलोलं खुरपङ्क्तिचञ्चलम्, मीनगणचञ्चलश्च । उल्लङ्घनशीलम् उत्प्लवनधर्माढ्यम्, उत्प्लवनधर्मा च । उयत् ऊर्ध्व गच्छत्, गच्छंश्च । आश्वीयमश्वसमूहः । अम्बुराशेः कलोल इव चक्राम
चचाल ॥
स्नेहाद्वहन्ती क्षणमुत्कटाक्षा वेश्येव शल्यं हृदये दधाना । उच्चाल्यमानातुरगैः परैश्च स्थानाद्विरोधेन चचाल रथ्या ॥ ३७ ॥
स्नेहादिति ॥ स्नेहात् तैलादितः, प्रीतेश्च । वहन्ती प्रवर्तमाना । उत्कटाक्षा निष्ठुरचक्रभ्रमणकाष्ठा, उत्क्षिप्तलोचना च । हृदये मध्ये, मनसि च । शल्यं तोमरादिशस्त्रं धुरं वा, कौटिल्यं च । दधाना धरन्ती । परैर्जातिसंपन्नैः, तुरगैरश्वैः, आतुरगैश्चपलगतिभिः
७