________________
५०
काव्यमाला ।
परैर्धूर्तैः । उच्चाल्यमाना प्रेर्यमाणा । रथ्या रथसमूहः वेश्या इव । विरोधेन वैरेण, कलहव्याजेन च । स्थानात्प्रदेशात् । क्षणं मुहूर्तम् । चचाल चलितवती ॥ श्लेषोपमा ॥ उदात्तवंशं बहुधातुरङ्गैरूढं समुत्कङ्कटकप्रधानम् ।
युयुत्सु गच्छत्प्रकटोत्थदानं तद्भास्तिकं कावचिकं च रेजे ॥ ३८ ॥ उदात्तेति ॥ उदात्तवंशम् उच्चष्पृष्ठवंशम्, उदारान्वयं च । बहुधातुरङ्गैर्बहूनां धातूनां गैरिकादीनां रङ्गैः रूढं विभक्तम्, बहुधा बहुप्रकारेण तुरङ्गैरश्वैः ऊटं धृतं च । समुत्कं समुत्कण्ठितं कटकप्रधानं कटके स्कन्धावारे प्रधानम् समुत् सानन्दं कङ्कटकप्रधानं संनाहसनाथं च । प्रकटोत्थदानं प्रकर्षेण कटाभ्यां कपोलाभ्याम् उत्थमुत्थितं दानं मदो यस्य तादृक्, प्रव्यक्तनैसर्गिकत्यागं च । युयुत्सु योद्धुमिच्छत् । गच्छत् चलत् तत् हास्तिकं हस्तिसमूहः, कावचिकं कवचिसमूहश्च । रेजे भाति स्म ॥ श्लेषः ॥
शार्माणि चापानि समुत्क्षिपन्तस्ते कञ्चकं कार्दमिकं प्रविष्टाः । धनुर्भूतोऽभ्युद्धतनीलशृङ्गाः कृष्णाः पशूनां समजा इवाभुः ॥ ३९ ॥ शार्ङ्गणीति ॥ शार्ङ्गचापानां शृङ्गम्, कार्दमिककञ्चुकस्य कृष्णवर्ण उपमानम् ॥ नृणामसीनां वसुनन्दकानां पार्श्वोपरोधं स्फुरतां प्रवाहाः । विन्दारुणानां विरराजिरेऽमी द्रुता इव त्रापुपजातुषौघाः ॥ ४० ॥
नृणामिति ॥ नृणां पुरुषाणां पार्श्वोपरोधम् उभयपार्श्वमुपरुध्य स्फुरतां शोभमानानाम्, स्विन्दारुणानां श्वेतशोणानाम् असीनां खड्गानां वसुनन्दकानां हस्तस्फुराणां अमी प्रवाहा द्रुता द्रवीभूताः त्रापुषजातुषौघाः त्रपुजतुविकारप्रवाहा इव विरराजिरे शुशुभिरे । असित्रपुणोः श्वैत्यम्, वसुनन्दकजतुनोः शोणतेति सादृश्यम् ॥
भूर्जद्रुमस्येव विहायसश्चेत्त्वचयुताः स्युर्विधुता मरुद्भिः ।
·तथा भवेयुः पथि वैजयन्त्यः कालस्य जिह्वा इव वा ललन्त्यः॥ ४१ ॥
भूर्जेति ॥ चेद्यदि मरुद्भिर्वातैर्विधुताः कम्पिताः च्युताः पतिताः विहायसो गगनस्य भूर्जद्रुमस्य इव त्वचः, यथा स्युः । तथा पथि मार्गे ललन्त्यश्चलन्त्यः, वैजयन्त्यः पताकाः कालस्य यमस्य जिह्वा इव वा भवेयुः ॥ उत्प्रेक्षा ॥
प्रभा विमानं समुपेत्य यातां कौक्षेय कैस्तिग्मकरैः स्फुरद्भिः । केषांचिदभ्रोदरमुत्पतन्त्या लीलोन्नतालम्भि तडिल्लतायाः ॥ ४२ ॥
प्रभेति ॥ विमानं विशिष्टसत्कारं स्वस्वस्वामितः समुपेत्य प्राप्य प्रभा दीप्ती: यातां प्राप्तवताम् केषांचिद् भटानाम्, तिग्मकरैस्तीक्ष्णकिरणैः, स्फुरद्भिः झलकायमानैः कौक्षेयः खङ्गैः कर्तृभिः अभ्रोदरं जलधरमध्यम् उत्पतन्त्या ऊर्ध्वं गच्छन्त्याः तडिल्लताया विद्युल्लताया उन्नता उच्चा लीला शोभा अलम्भि प्राप्ता ॥ लुप्तोपमा ॥