________________
५ सर्गः] द्विसंधानम् ।
....- ९१ सिन्दूररेणुः करिकर्णतालैरुद्धूयमानो दिशि विप्रकीर्णः । रुद्धार्यमाभ्याधित तापसानां संध्यासमाधौ नियमैकबुद्धिम् ॥ ४३॥ सिन्दूरेति ॥ करिकर्णतालैर्गजश्रोत्रव्यजनैरुद्भयमान उत्क्षिप्यमानो दिशि दिक्षु विप्रकीर्णः प्रसृतो रुद्धार्यमा आच्छादितसूर्यः सिन्दूररेणुः सिन्दूरधूली तापसानां व्रतिनां संध्यासमाधौ संध्याकर्मणि नियमैकबुद्धिमनुष्ठानैकमतिमभ्याधित कारितवान् ॥ भ्रान्तिः ॥
अभूत्प्रकाशं विपिनं प्रचारैः कूलंकषाणां न्यपतस्तटानि । निपीतनीरप्रतिदित्सयेव द्विपा मदाम्भो ववृषुः सरःसु ॥ ४४ ॥ अभूदिति ॥ विपिनं वनं प्रचारैश्चरणघटनाभिः प्रकाशं निबिडान्धकाररहितम् अभूत् संजातम् । कूलंकषाणां नदीनाम् तटानि न्यपतन् । द्विपा गजा निपीतनीरप्रतिदित्सया निपीतस्य पीतकर्दमावशिष्टस्य नीरस्य प्रतिदातुमिच्छ्रयेव मदाम्भो मदजलं सरःसु सरोवरेषु ववृषुः ॥ समुच्चयः ॥
सौदामिनीदामचितेव शस्त्रैरभ्राकुलेव द्विरदैर्दिगासीत् । - समुद्रवेलेव चलैस्तुरङ्गैस्त्रैलोक्ययात्रेव जनैश्चलद्भिः ॥ ४५ ॥ सौदामिनीति ॥ दिग् शस्त्रैः सौदामिनीदामचिता तडिन्मालावगुण्ठितेव, द्विरदैर्गजैः अभ्राकुला मेघव्याप्तेव, चलैस्तुरङ्गैरश्वैः समुद्रवेलेव, चलद्भिर्जनैः त्रैलोक्ययात्रेव, आसीत् ॥ उत्प्रेक्षा ॥
वंशावतारं जगतीपतीनां ववन्दिरे बन्दिजना गुणांश्च । श्वेतातपत्राणि समुल्लसन्ति क्षीरार्णवस्योत्कलिकाः प्रजिग्युः ॥ ४६ ॥ वंशेति ॥ बन्दिजना जगतीपतीनां क्षितीश्वराणां वंशावतारं यथा स्यात्तथा गुणांश्च ववन्दिरे । समुल्लसन्ति श्वेतातपत्राणि शुभ्रच्छत्राणि क्षीरार्णवस्य उत्कलिकास्तरङ्गान् प्रजिग्युः ॥ समुच्चयः ॥
संक्रीडितं स्यन्दनचक्रजातं वने मयूरा विनिशम्य रम्यम् । घनारवोत्काः पतिता इवौधैः पिच्छातपत्रप्रकरा विरेजुः ॥ ४७ ॥ संक्रीडितमिति ॥ पिच्छातपत्रप्रकराः मायूरपिच्छजातच्छत्रसमूहाः वने स्यन्दनचक्रजातं रथस्य चक्राभ्यां जातं रम्यं मनोहरं संक्रीडितं चीत्कृतं विनिशम्य श्रुत्वा घनारवोत्का मेघगर्जनोत्कण्ठ ओघैः समूहैः पतिता मयूरा इव विरेजुः शोभन्ते स्म ॥ उत्प्रेक्षा ॥
शङ्खानकारावमयी पतीनां दिशां श्रुतिः सैन्यमयी च दृष्टिः । रजोमयी कामविमानभूमिः शङ्कात्मसंहारमयी बभूव ॥ ४८ ॥ शर्केति ॥ दिशां पतीनां दिक्पालानां श्रुतिः श्रोत्रं शङ्खानकारावमयी शङ्खपटहध्वनि