________________
९ सर्गः]
द्विसंधानम् ।
तदा बलिष्ठं तम् आनय । अतः कारणात् मुखेन वदनेन यः पदं पदवीम् आहितवान् आरोपितवान् स एव साहसिको महारथश्च किं स्यात् । यद्वा स एव महारथः साहसिको धैर्यवान् स्यात् ॥ अर्थान्तरन्यासः ॥
४७
महीं समूहन्तमिवाक्षिपन्तं ब्रघ्नं प्रतापाग्निमिवोद्भिरन्तम् । ब्रुवाणमाक्षिप्य गिरं तथासौ निर्घातपातोपहतं जगर्ज ॥ २६ ॥
महीमिति ॥ असौ शूर्पणखा कीचकश्च महीं पृथ्वीं समूहन्तं गिलन्तम् इव ब्रघ्नं सूर्यम् आक्षिपन्तमालिखन्तम् इव, प्रतापानं 'प्रतापो यस्य वार्तापि राज्ञां स्याद्भयकारिणी' इत्युक्तलक्षणप्रतापानं वीरविपक्षभयोत्पादन वार्तादहनम् उद्गिरन्तम् इव गिरं वाणीं बुवाणं भाषमाणम् तथा ( लक्ष्मणं वृकोदरं च ) लक्ष्मण भीमोक्तिक्रमेण निर्घातपातोपहतं विद्युल्लतापातसमर्दितम् यथा स्यात्तथा जगर्ज ॥ उत्प्रेक्षा ॥
काष्ठा गिलन्तीव भुवं वियच्च भित्त्वा व्रजन्तीव मनो जनानाम् ।
विदारयन्तीव वचांस्यवोचत् सामान्यवृत्तिः समहानियोगात् ॥२७॥
काष्ठा इति ॥ अमान्यवृत्ति निन्दिताचरणा सा शूर्पणखा समहानियोगात् समं युगपत् हान्योः शम्बुकुमारमरण लक्ष्मणसंभोगाभावरूपयोर्योगात्संबन्धात् काष्ठा दिशो गिलन्ती इव, भुवं पृथ्वीं वियद्गगनं च भित्त्वा व्रजन्ती इव, जनानां मनो विदारयन्ती इव, वचांसि अवोचत् ॥ भारतीये – सामान्यवृत्तिः सामतोऽन्यस्मिन्दण्डे वृत्तिर्वर्तनं यस्य दण्डयोग्यः सः कीचकः महानियोगात् गुरुतरनिबन्धात् काष्ठा गिलन्ति इव, भुवं वियच्च भित्त्वा व्रजन्ति इव, जनानां मनो विदारयन्ति इव वचांसि अवोचत् ॥ श्लेषोत्प्रेक्षा ॥
नापत्यघातं प्रतियुज्य वाचा बहुप्रलापिन्नपयासि जीवन् ।
भवानभिज्ञः खरदूषणस्य नाद्यापि युद्धेषु पराक्रमस्य ॥ २८ ॥
नात्येति ॥ हे वाचा बहुप्रलापिन् लक्ष्मण, अपत्यघातं शम्बुकुमारवधं प्रतियुज्य विधा जीवन् सन्न अपयासि अपसरसि । भवान् अद्यापि पराक्रमस्य पराशत्रूनाक्रमतः खरदूषणस्य खरदूषणयोः युद्धेषु न अभिज्ञः । यद्वा युद्धेषु खरदूषणस्य तत्संबन्धिनः पराक्रमस्य बलस्य || भारतीये - आगत्य आगत्य घातं वधं प्रतियुज्य उद्दिश्य वाचा बहुप्रलापिन्, त्वं जीवन् न अपयासि । खरदूषणस्य खरं तीव्रं दूषणं यस्माद्यस्मिन् वा तादृशो युद्धेषु पराक्रमस्य न अभिज्ञः ॥ श्लेषः ॥
वैरायते मे मतिरस्ति शक्तिरागच्छ संपादय संपरायम् ।
वेत्सि प्रतापं रिपुवंशदावं कथं न मत्तो दशकंधरोत्थम् ॥ २९ ॥ वैरेति ॥ हे लक्ष्मण, मे मम मतिर्बुद्धिः, वैरायते वैरं करोति । यदि शक्तिर्बलमस्ति तदा आगच्छ संपरायं युद्धं संपादय । मत्त उन्मत्तस्त्वं रिपुवंशदावं विपक्षान्वयदावानलम् दशकंधरोत्थं रावणीयं प्रतापं पौरुषं कथं न वेत्सि | भारतीये – हे भीम, ते तव वैराय मे