________________ 202 CATUHSATAKA [329 भावादन्यो घटो भवत्येवमेव वैलक्षण्याद्भावोऽपि किमर्थ घटादन्यो' न भविष्यति। ततश्चान्यबुद्विध्वनिप्रवृत्ति निमित्तमन्यत्वमपरमनुप्रवृत्तिलक्षणं न कल्पयितव्यम्। वैलक्षण्यादेवान्यबुद्विध्वनिप्रवृति सिद्धेः / . कल्पाते चापरमन्यत्वमिति / नास्ति तर्हि भावघटयो।लक्षण्यापेक्षमन्यत्वम्। ततश्च यदुक्तं वैलक्षण्यं दूयोदृष्ट्वा भावादन्यो घट इति तन। यथा च भावोऽनुप्रवृत्तिलक्षणत्वाइटादन्य एवमन्यत्वमप्यनुप्रवृत्तिलक्षणत्वाइटादन्यत्स्यात्। न च तस्यान्यत्वस्यापरमन्यबुद्विध्वनिप्रवृत्ति निमित्तमस्ति / यदि स्यादन्यत्वानामपर्यवसानदोषः स्यात्। अथ विनैवान्यत्वेनान्यबुद्धिरन्यत्वे भवति। तहदेवान्यत्रापि सम्भाव्यतामित्यलमन्यत्वेनाकिञ्चित्करण कल्पितेन / असति चान्यत्वे नास्ति कुतश्चित्कस्यचिदन्यत्वमिति सिद्धम्। अपि चेदं चिन्त्यते। किम्भूतायाः सत्ताया अन्यत्वेन योगोऽस्तु / किमन्यभूताया अनन्यभूताया वा। यद्यन्यभूतायास्त दा व्यर्थोऽन्यत्वेन योगः / अथानन्यभूतायाः। एवमपि विरुद्धेनान्यत्वेन योगादन्यत्वेन योगो न प्राप्नोति / अन्यत्वाभावाच्च घटादन्यो भाव इति न युज्यते। ततश्च' लोके विपर्यास प्रमाणीकृत्य घटत्वरूपमेव सडु विध्वनिप्रवृत्तिनिमित्तत्वाद्भाव इति व्यवस्थाप्यते। तस्य च रूपाच्चतुर्धा विचार्यमाणस्य नास्ति स्वभाव इति तत्त्वविदपेक्षयालातचक्रादिवत्स्वभावशून्यो घट इति सिद्धम् // 3 // 329 CSV : अत्राह / विद्यत एव घटो गुणाश्रयत्वात्। न सन् गुणाश्रयो दृष्टः। भवति च गुणाश्रयो घटः। एको घटो हौ घटाविति / एकत्वादयो गुणपदार्थसंग्रहीता घटश्च द्रव्यम्। द्रव्याधयित्वं च गुणानां सम्भवतीति / अतो गुणात्रयत्वादस्त्येव घट इति। अत्रोच्यते। त्वन्मतेन-। 1 Tib. dnos po yan bum pa las ; HPS 'vailaksanyad ghatad api kimartham bhavo'nyo. 1 In the second half of the karika there are two negatives, but the commentary in both the texts, Skt. and Tib., takes only one of them. The karika may be explained as follows: If you say having seen the diverseness of them two that the ghata is different from bhava, then we may reply: no; for in that case why is it that bhava, too, will not be different from ghata * TiD. om. pravrtti. * Tib. om. iti. See note 5. * HPS anyatvam iti nasti | tarhi bhavai]. Tib. anyatvam atha bhavaghatayor. anyatvah nasti tatahi...(gz'an iiiddeg | ho nadiios po dan bum pa dag ladeggzan iiidyod pa ma yin no | dehi phyirdeg|). * Tib.om.yad uktam. 7 Tib. om. it. * Tib. vioa ryamape (dpyad pa na). * Tib. bum pa ni; HPS ghatas cn.