________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
सूत्रस्थानम् ।
२६५ न रक्ती न विषेणात्तों न शोची न च गर्भिणी। न श्रमे न मदे नामे न पित्ते न प्रजागरे॥ न मूर्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते । न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम् ॥ धूमं न भुक्ता दन्ना च न रुक्षः क्रुद्ध एव च । न तालुशोषे तिमिरे शिरस्यभिहते न च । न शके न रोहिण्यां न मेहे न मदात्यये । एषु धूममकालेषु मोहात् पिबति यो नरः ।
रोगास्तस्य प्रवर्द्धन्ते दारुणा धूमवित्रमात् ॥ १७॥ चामाजीण, न जागरे इति प्रायोगिकवरेचनिकधूमविषये प्रतिषेधः स्न हिके तु विधिः, क्षीणे धातुक्षये क्षीणे सति, क्षते उरःक्षते। न मद्यदुग्धे पीत्वा न स्नह पीला न माक्षिकञ्च पीला धूमं पिबेदिति पूव्वेंणान्वयः। पीत्वेति वचनात् केवलमद्यादिपानानन्तरं धूमप्रतिषेधः तेनान्नं भुक्त्वा तु न प्रतिषध्यः पातुं धूमः । न भुक्त्वा दना चेति-दना भुक्तवतोज्नं धूमपानं प्रतिषेध्यं न तु दधि पीत्वा प्रतिषेधः। चकारस्त्वत्र न चेत्यन्वितः। अत्र पुनधूमग्रहणं दना भुक्तवतोऽधिकत्वेन धूमप्रतिषेधार्थम् । न रुक्ष इति स्नैहिकातिरिक्तधूमविषये निषेधः । एवं क्रद्धोऽपि । एक्शब्दोऽत्रावधारणे, चकारः पुनस्तस्य समुच्चये। रोहिणीअग्निरोहिणी। एषु धूमपानदोषमाह-एष्वित्यादि। एषु विरिक्तादिषु मध्ये यो नरो मोहामं पिबति । अकालेष्विति धूमपानानहवयस्त्वत्र अकालः, स चार्वाग् द्वादशवत्सरात् ; तत्रान्तरे हि “न चोनद्वादशे धूमः” इत्युक्तम्। न तु स्नात्वा भुक्तवेत्यादुरक्तकालातिरिक्तकालेषु तेषु पूर्वमेव "अकाले चातिपीतश्च धूमः कुर्य्यादुपद्रवान्” इति वचनेन प्रतिषेधात्। तथा चाकालेषु अाक द्वादशवर्षवयसो यो नरो मोहामं पिबति तस्य धमविभ्रमात धूमपानकुपितवातात् रोगाः प्रवद्धन्ते। यस्मिन् यस्मिन् रोमेरोगे वा धूमेन विरेकादिः क्रियते, तस्निस्तस्मिन् रोगे तेन धूमेन स च रोगो बद्धतेऽन्ये च रोगा जायन्ते इति तात्पर्य्यम् ।।१७॥
चक्रपाणिः-न विरिक्त इत्यादौ प्रतिनिषिद्धं नकारकरणं निषेधगौरवदर्शनार्थम् । धूमं न भुक्तति पुन—मग्रहणं दना भुक्तवतो विशेषप्रतिषेधार्थम् ॥ १७ ॥
For Private and Personal Use Only