Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1182
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम्। ११७१ स चाध्येतव्यो ब्राह्मणराजन्यवैश्यः, तत्रानुग्रहार्थं प्रजानांक भूतविद्या। सुश्रुते च-भूतविद्या नाम देवासुरगन्धव्वैयक्षरक्षःपितृपिशाचनागग्रहादुरपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थमिति ॥॥ कौमारभृत्यमिति । कुमाराणां भृतिं धारणपोषणमधिकृत्य चिकित्सितम् । सुश्रुते चोक्तम् – कौमारभृत्यं नाम कुमारभरणधात्रीशीरदोषसंशोधनार्थ दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थमिति ॥०॥ रसायनानीति । रसस्य सममानेनाहरहरयनं येन तद्रसायनम्, अव्यापन्नरसस्य सर्वदा गमनेनोत्तरोत्तरधातूनामव्यापत्त्या वयःस्थापनादिकं भवतीति । सुश्रुतेनाप्युक्तम्-रसायनतन्त्रं नाम वयःस्थापनमायुमेधावलकरं रोगापहरणसमथेञ्चेति ॥॥ वाजीकरणमिति । वाजः शुक्रं तत् प्रशस्तखेन यस्यास्तीति वाजी, अवाजिनं वाजिनं करोत्यनेनेति वाजीकरणम् । सुश्रुते चवाजीकरणतन्त्रं नाम अल्पदुष्टविशुष्कक्षीणरेतसामाप्यायनप्रसादोपचयजनननिमित्तं प्रहर्षजननार्थञ्चेति। तत्र चिकित्सास्थाने चोक्तम्-सेवमानो यदौचित्याद वाजीवात्यर्थवेगवान्। नारीस्तर्पयते तेन वाजीकरणमुच्यते। इति । इत्यष्टाघङ्गान्यायुर्वेदस्य ॥१५॥ गङ्गाधरः-अथ कैरध्येतव्य इति प्रश्नोत्तरमाह-स चेत्यादि। स चायुवेदो ब्राह्मणराजन्यवैश्यैरध्येतव्यः । ब्राह्मणाद ब्राह्मण्यां जातो ब्राह्मणस्तथा ब्राह्मणाद विधिना (खोढ़ायां क्षत्रियकन्यायाश्च ब्राह्मण्यां पत्न्यां जातो मूर्दाभिषिक्तो नाम सुवर्णको भिषक् च ब्राह्मणः। तथा ब्राह्मणाद विधिना खोदायां वैश्यकन्यायाश्च ब्राह्मण्यां जातोऽम्बष्ठः भिषक ब्राह्मणः क्षत्रियाज्जातो माहिष्यश्चेति वैश्यावैश्यश्च। एतेन शूद्राणां शूद्रयोनीनाञ्च ब्राह्मणक्षत्रियवैश्येभ्यो जातानां शूद्रायायायुक्वेदाध्ययनाधिकारः प्रतिषिद्धः। यत् तु सुश्रुते प्रोक्तम्-शूद्रमपि कुलगुणसम्पन्नमनुपनीतं मन्त्रवज्जमध्यापयेदित्येके इति, तच्छल्यतन्त्रप्रधानतन्त्राभिप्रायेणके वदन्ति न सव्वतन्त्राभिप्रायेणेति । अथ कैः किमर्थमध्येतव्य इति प्रश्नस्योत्तरमाह-तत्रेत्यादि। अनुग्रहार्थं चक्रपाणिः-आरक्षार्थ राजन्यैरिति क्षत्रियस्य परिपालनधर्मकत्वात्; अनुध्यायतीति मनसा * प्राणिनामिति कचित् पाठः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204