Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः
सूत्रस्थानम्।
११८५ सवृत्तन विगृह्णीयाद भिषगल्पश्र तैरपि। हन्यात् प्रश्नाष्टकेनादावितरान् ये प्रमादिनः ॥ दम्भिनो मुखरा ह्यज्ञाः प्रभूतबहुभाषिणः।
प्रायः प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः॥ भातो न किमपि नदति, तथा चाबुद्धिः भिषक्छद्मचरः भिषग्वेशेन गूढः संसृतः सन् संजल्पे वादिप्रतिवादिवादे किं वक्ष्यति ? किमपि न वक्ष्यति । एवमबहुश्रुतोऽल्पश्रुतस्तन्त्रकदेशिकः सिद्धसाधितो भिषक् संजल्पे किमेव वक्ष्यति न किञ्चिद्वक्ष्यति ।
दृष्टान्तान्तरं दर्शयति-कुण्डभेदी जड़ो यथेति। यथा जड़ो निब्बुद्धिः कुण्डभेदी भ्रष्टयोनिः खलु नीचजातिः स्वस्य जाति गोपयिता विशुद्धजातिः सन संजल्पे तस्य जातिकुलगोत्रादिपरिचये कि वै वक्ष्यति ? किमपि न वक्ष्यति; तथा भिषक्छद्मचरः सिद्धसाधितश्च भिषक् संजल्पे वादप्रतिवादे किं वं वक्ष्यति? किमपि न वक्ष्यतीति। इत्यसत्ताभ्यां भिषक्छनचर-सिद्धसाधिताभ्यां भिषग्भ्यां विगृह्य वादमुक्त्वा सत्तेन सह जल्पमाह-सदवृत्तैरित्यादि । सवृत्तभिषम्भिरपरैर्वा अल्पश्रुतैबहुश्रुतैरपि भिषग् जल्पकाले न विगृह्णीयाद विगृह्य जल्पं न कुर्यात् ।
तर्हि कैविगृह्य जल्पं कुर्यादिति ? अत आह-हन्यादित्यादि। आदौ प्रश्नाष्टकेन तन्त्रं तन्त्रार्थमित्यादिना प्रश्नेन तेभ्यः सदवृत्तेभ्य इतरान् हन्यात । सत्तेभ्य इतरे के इत्यत आह-ये प्रमादिनः दम्भिनश्च मुखराश्चाज्ञाश्च प्रभूतबहुभाषिणः, प्रभूतानि पुनर्बहु भाषितुं शीलं येषामिति। तान् प्रश्नाष्टकेन आदो हन्यादिति।
नन्विमे किं न सत्ता इत्यत आह-प्राय इत्यादि। वीप्सायां द्विर्भावात् । प्रायः प्रायेण सन्तो जनाः सव्वत्र सुमुखा न विमुखा एव युक्तश्च अल्पञ्च भाषितु शीलं येषां ते युक्ताल्पभाषिणो भवन्ति। तद्वत् तादृशा अणां दृष्ट्वा उपमृत्याङ्गभङ्गमाप्नोति ; तद्वदज्ञ आप्त प्राप्य भिद्यत इत्यर्थः ; किंवा बभ्र वृद्वनकुल ऊर्णाराशिमध्यगो यथा किञ्चिन्न प्रतिपद्यते, तथाबुद्धिराप संजपे वादिप्रतिवादिकथायाम् । कुण्डभेदी भ्रष्टयोनिः ; सेन पृच्छादिनात्मीयनिन्दितजातियथावदातजातिः सन्
* चाममानिन इति पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204