Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३.श अध्यायः सूत्रस्थानम् ।
११८३ इति सर्व यथाप्रश्नमष्टकं सम्प्रकाशितम् । कात्स्येन चोक्तं तन्त्रंण संग्रहः सुविनिश्चितः ॥ ३० ॥ सन्ति पालविकोपेताः संक्षोभं जनयन्ति ये। वर्तिकानामिवोत्याताः सहसैव विभाविताः ॥ तस्मात् तु पूर्वकं जल्पे सर्वत्राष्टकमादिशेत् । परापरपरीक्षार्थं तत्र शास्त्रविदां वरः ॥ उपसंहरति-इतीत्यादि। अष्टकम् । तन्त्रं तन्त्रार्थः स्थानं स्थानार्थः अध्यायोऽध्यायाथः प्रश्नः प्रश्नार्थ इत्यष्टकम् । कात् स्नेन तन्त्रेण चोक्तं तस्य सुविनिश्चयः संग्रहः संक्षेपश्चोक्त इति । इत्येवं कृत्स्नं तन्वं यो भिषक् ब्रवीति स प्राणाभिसरो भिषगुक्तः ॥३०॥
गङ्गाधरः-ननु किमर्थमेवमष्टकं तन्त्रादिकं प्रष्टव्यमिति ? अत आह-सन्तीत्यादि। त्रिविधा भिषज इति यत् पूर्वमुक्तं प्राणाभिसराः सिद्धसाधिता भिषक्छद्म चराश्च, तत्र केचिद्भिषजः पाल्लविकोपेतास्तन्त्रस्यैकदेशविदः सन्तो निखिलशास्त्रपण्डितमानिनो दम्भिनः प्रौढोक्तिकारिण इत्येवमादिक्षपल्लववदतिविस्तर श्लाघारपेताः सन्ति ये लोकानां संक्षोभं वागाड़म्बरादिवाचालतादम्भाभिमानादिभिमनोविक्षोभणमितस्ततो भ्रान्तिं जनयन्ति। यथा वर्तिकानां चटकविशेषाणां सहसा पततामुत्पाता विभाविता विशेषेण भाविता मनोविक्षोभणं जनयन्ति। चटकोत्पातैलोका व्यस्तचिन्ता भवन्ति तद्वत पाल्लविकोपेताः सिद्धसाधिता भिषक्छनचरा उत्पातं कुर्वन्तीति। तस्माखेतोः परापरपरीक्षार्थं श्रेष्ठाश्रेष्ठभिषपरीक्षार्थं शास्त्रविदां वरः पण्डितश्रेष्ठोऽत्र सर्वत्रैव जल्पे पक्षाश्रितयोर्द्वयोः शास्त्रार्थकथने पूवमेवाष्टकं तन्त्रं तन्त्राथमित्यादुाक्तमष्टप्रश्नमादिशेत्। युक्ताध्यायसंज्ञा, सा च अधिकरणसाधना वा करणसाधना वा कर्मसाधना वा बोदव्या, अधीयतेऽस्मिन्नधीयतेऽनेन वा अधीयते वा अध्यायः ॥ २९ ॥ ३०॥
चक्रपाणिः-प्रश्नाटकस्योक्तस्य निराकरणीयसंशं वैद्यमाह-सन्तीत्यादि। पालविकाः प्रादेशिकाः, वर्तका अकस्मादुत्पतन्तः क्षोभं मनसो जनयन्तीति ; लोकसिमटकमिदं यथोक्त प्रश्नाटकम् ; परावरौ श्रेष्ठाश्रेष्ठौ, तत्र शास्त्रविदां बलमिति शास्त्रविद एव प्रश्नाटक जानन्ति, न पाल्लविकाः।
For Private and Personal Use Only

Page Navigation
1 ... 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204