Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८२
चरक-संहिता। अर्थेदशमहामूलीयः पृच्छा तन्त्राद यथाम्नायं विधिना प्रश्न उच्यते। प्रश्नार्थो युक्तिमांस्तस्य तन्त्रणेवार्थनिर्णयः ॥ २६ ॥ निबन्धं तन्त्रणात् तन्त्र स्थानमथप्रतिष्ठया।
अधिकृत्यार्थमध्यायो नाम संज्ञा प्रतिष्ठिता॥ प्रवक्ष्यते। तत्र श्लोका इति कला प्रत्येकाध्यायाथैः प्रत्येकाध्याये प्रवक्ष्यते। तत्सव्वं यथार्थादनुसंग्रहाद्धि यस्मात् सवेतो ब्रूयात् इति ॥२६-२८॥
गङ्गाधरः-अथ प्रश्नमाह-पृच्छा तन्त्रादित्यादि। यस्य यत् तन्त्रमग्निवेशभेलजतूकर्ण-पराशर हारीतक्षारपाणि-चरकसौश्रुत पुष्कलावतौरभ्रगोपुररक्षितनागाज्जनकणादाद्यन्यतमं तस्माद यत्किञ्च यथाम्नायं यथोक्तं विधिना यत् पृच्छति परस्तस्य स उत्तरवचनप्रयोजकः स्वसंशयादिनिवारणोद्देश्यकज्ञानेच्छा. प्रकाशकवचनव्यापारः प्रश्न उच्यते। प्रश्नार्थमाह ---प्रश्नार्थ इत्यादि। तस्य प्रश्नस्य तन्त्रेणैव तेन युक्तिमानात्मनस्तत्प्रश्नस्य निर्णयः प्रश्नार्थ उच्यते । यथा-भो भिषगसि । ब्रूहि किमायुवेद इति प्रश्नः । तस्यार्थः । आयुर्वेदयति इत्यायुवेदस्तत् किमिति प्रश्नार्थः ॥२९॥
गङ्गाधरः-अथ कस्मात् तन्त्रमुच्यते, इत्यत आह-निवन्धमित्यादि । तन्त्रणानियमानिबध्यते यत् तनिबन्धं तन्त्रम् । तस्य स्थानं, कस्मात् अर्थस्य प्रतिष्ठया स्थित्या स्थानमुच्यते, कस्मात् तदध्याया इत्यत आह–अधीयते यो ग्रन्थस्य परिच्छेदः सोऽध्यायः । तेषामध्यायानां नाम संज्ञा दीर्घजीवितीयादिः संशा अर्थमधिकृत्य कृतोऽध्याय इति प्रतिष्ठिता तेन कृते ग्रन्थे इति सूत्रेण निष्पादिता।
शारीरे स्थानार्थो न व्यक्तः, तथापि शारीरव्युत्पत्तया बोद्धव्यः ; नन्त्रान्तराद् वा ---यथा शरीरं चिन्त्यते सर्व दैवमानुषसम्पदा। सबभावयु तस्तम्माच्छारीरं स्थान मुच्यते ॥ २१-२८॥
चक्रपाणिः-विधिना प्रश्न इत्यत्र विधिनेति पूर्वापराविरोधात् दोपशून्येन वाक्येन । तन्त्रणादिति शरीरधारणात् ; अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात्, एताश्च योगरूढाः संज्ञाः, तेन अतिप्रसङ्गो न वाच्यः। अधिकृत्येति अधिकारिणं कृत्वा ; अर्थ दीर्घञ्जीवितादिकम् ; अध्यायनामसंज्ञा अध्यायरूपनामसंज्ञा, नामसंज्ञा च योगरूढादिसंज्ञोच्यते, किंवा अध्यायो नामेति पाठः, तदा नामशब्दः प्रकाशने, तेन अधिकार इत्यर्थः । अर्थशब्दोऽत्रार्थान्तरे, तेन
For Private and Personal Use Only

Page Navigation
1 ... 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204