Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1199
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता अर्थदशमहामृलीयः सप्तकश्चाष्टकश्चैव परिप्रश्नः सनिर्णयः। यथा वाच्यं यदर्थश्च षड़विधाश्चैकदेशिकाः ॥ अर्थेदशमहामूले सर्वमेतत् प्रकाशितम् । संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः॥ यथा सुमनसां सूत्र संग्रहार्थं विधीयते । संग्रहार्थं तथार्थानामृषिणा संग्रहः कृतः ॥ ३४ ॥ महामूलसंज्ञा सिराणां, धमनी सिरास्रोतःसंज्ञा । एकं प्राणवद्धनानामित्यादिना एकमयनानां तेषां विवरणञ्च, ब्रह्मचर्यमयनानामित्यन्ताः षड़ग्राः श्रेष्ठाः षट् । वेदविदामायुवेदविदां त्रिधा रूपं प्राणाभिसर-सिद्धसाधित-भिषक्छमचररूपं तेषां विशेषरूपश्च । सप्तक इति। किमायुश्चेत्यादिना सप्तकः सनिर्णयः परिप्रश्नः। तथा तन्त्रं तन्त्रार्थानित्यादिना चाष्टकः सनिर्णयः परिप्रश्नः । यथा वाच्यं येन प्रकारेण यस्य प्रश्नस्योत्तरं वाच्यं तत्। यदर्थश्च तदुत्तरं वाच्यं तत्। ऐकदेशिकाः षड़विधा भिषजः, पाल्लविकोपेताः प्रमादिनो दम्भिनो मुखरा अज्ञाः प्रभूतबहुभाषिणश्चेति षट्। एतत् सर्वमस्मिन् अर्थदशमहामूलीये मुनिनायेण प्रकाशितम्। अयमध्यायश्चास्य चरकप्रोक्तस्य तन्त्रस्य केवलः कृत्स्नः संग्रहः। तत्र दृष्टान्तः--यथेत्यादि। सुमनसां पुष्पाणां संग्रहार्थं यथा सूत्रं ग्रन्थनेन संग्रहो भवति, तथार्थानां संग्रहाथमेष संग्रहाध्याय ऋषिणा कृत इति ॥३४॥ अयनान्ताः षडग्रयाश्चेति “एक प्राणवर्द्धनानाम् इत्यादिनोक्ताः। एते चाहिंसादयोऽग्रवाधिकारे यजःपुरूषीये उक्तास्तानुल्लङ्घपहोक्ता अध्यात्मविषयत्वेन, पूर्वोक्तास्त्वग्रयरोगाधिकारिणाम्, सप्तकः “किमायुश्च कस्मादायुर्वेदम्" इत्यादि, अष्टकः प्रश्नः “तन्त्र तन्वार्थम्" इत्यादि ।। ३४ ॥ इति चरकचतुराननश्रीमञ्चक्रपाणिदत्तकृतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायामर्थेदशमहामूलीयी नाम त्रिंशोऽध्यायः ॥ ३० ॥ सूत्रस्थानं समाप्तम् ॥ १॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1197 1198 1199 1200 1201 1202 1203 1204