Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३.श अध्यायः ।
सूत्रस्थानम् । समग्रदुःखमायत्तमविज्ञाने द्वयाश्रयम् । सुखं समग्र विज्ञाने विमले च प्रतिष्ठितम् ॥ इदमेवमुदाराथमज्ञानाथप्रणाशकम् । शास्त्र दृष्टिप्रनष्टानां यथैवादित्यमण्डलम् ॥ ३३॥
तत्र श्लोकाः। अर्थदशमहामूलाः संज्ञा चैषां यथा कृता।
अयनान्ताः षड़ग्राश्च रूपं वेदविदाञ्च यत् ॥ गङ्गाधरः-अथैवम विज्ञानामविज्ञानफलमाह-समग्र त्यादि। जनानामविशाने खलु आयत्तमधीनं द्वयाश्रयं मनःशरीराश्रयं समग्रदुःखम् आधिभौतिकाधिदैविकाध्यात्मिकं तथा जनानां विज्ञाने विमले च द्वयाश्रयं मनःशरीराश्रयं समग्र सुख प्रतिष्ठितमिति । एतच्चरकशास्त्रस्य प्रभावमाहइदमित्यादि। एवमनेन प्रकारेणोदारमर्थ लोकद्वयहितार्थमिदं चरकप्रोक्तं शास्त्रमज्ञानार्थप्रकाशकम् अज्ञानानां सम्बन्धेऽर्थप्रकाशकम् यथादित्यमण्डलं दृष्टिप्रनष्टानां लौकिकतमसा दृष्ट्या चक्षुषा प्रनष्टा ये रात्रौ तेषामर्थस्य दृश्यस्य प्रकाशकं तथा; न तु प्रनष्टदृशां न ह्यन्धतैमिरिकादीनां सम्बन्धेऽर्थप्रकाशकमादित्यमण्डलमिति ॥३३॥
गङ्गाधरः-अथाध्यायार्थसंग्रहार्थमाह-तत्र श्लोका इति । अर्थदशेत्यादि । अर्थे दश महामूलाः सिराः सक्ता महाफला इति । एषां हृदयस्यार्थसंज्ञा, पक्षः, अक्षणिकत्वं-- पृच्छार्थमनुयुक्तस्य 'सम्प्रति वक्तुं क्षणो नास्ति' इति भाषणम्, अतिः---पृच्छार्थमनुयुक्तस्य शिरोव्यथादिकम् उच्चार्य श्लाघमानं भापणम्, दम्भः पुस्तकवैद्यभाण्डादिभिः स्वार्थोत्कर्षप्रतिपादनम्, पारूप्यं कृच्छतोऽपि न वाच्यत्वादि परुषभाषणम् । अनाप्ताः स्वे तन्त्र इति स्वतन्त्रानभिज्ञत्वात्, परविकत्थकाः परदूषणाः। द्वयाश्रयमिति मनःशरीराश्रयम् ; सममिति शारीरं मानसञ्च, सुखमारोग्यादिरूपम्, विज्ञाने विमल इति विशुद्धज्ञाने, किंवा विज्ञाने विमल इति मोक्षे, मोक्षे हि सुखं समग्रं दुःखासंभिन्नत्वात्, किंवा भट्टदर्शनाहानाकृत्योद्भवम्, इदमिति शास्त्रम्, एवमुदारार्थमिति लोकद्वयहितार्थाभिधायकम् , दृष्टिप्रनष्टानामिति प्रनष्टदृशाम् ॥ ३२ । ३३ ।।
चक्रपाणिः-संग्रहे संज्ञा चैषां यथा कृतेति “तेन मूलेन महता महामूलाः” इत्यादिना ;
For Private and Personal Use Only

Page Navigation
1 ... 1196 1197 1198 1199 1200 1201 1202 1203 1204