Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1192
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०श अध्यायः सूत्रस्थानम् । ११८१ द्वित्रणीयं त्रिमीयमूरुस्तम्भिकमेव च। वातरोगे वातरक्ते योनिव्यापदि चैव यत् ॥ त्रिशच्चिकित्सितान्युक्तान्यतः कल्पान् परं शृणु। फलजीमूतकेक्ष्वाकुकल्पो धामागवस्य च ॥ पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने। श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गले ॥ तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च । दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते ॥ कल्पना पञ्चकम्ख्यिा वस्तिसूत्री तथैव च । स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा ॥ सिद्धिः शोधनयोश्चैव वस्तिसिद्धिस्तथैव च। प्रास्मृती मर्मसंख्याता सिद्धिर्वस्त्याश्रया च या ॥ फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसंज्ञिता। सिद्धयो द्वादशैवैतास्तन्त्रश्चासु समाप्यते ॥ २६॥२७॥ स्वे स्वे स्थाने तथाध्याये चाध्यायार्थः प्रवक्ष्यते। तं ब्रूयात् सव्वेतः सर्च यथार्थाद्धानुसंग्रहात् ॥ २८ ॥ योनिव्यापदि चैव यदित्यन्तेनाष्टाविंशत्यध्यायमिति त्रिंशदध्यायाश्चिकित्सितान्युक्तानि। __ अतः परं कल्पस्थानान् कल्पान् शृणु–फलेत्यादि। फलेत्यादिना दन्तीद्रवन्त्योः कल्पश्चेत्यन्तेनायं द्वादशाध्यायं कल्पस्थानं समाप्यते। अथ सिद्धिस्थानार्थमाह-कल्पनेत्यादिना सिद्धिश्चोत्तरसंहितेत्यन्तेन। एते द्वादशाध्यायाः सिद्धयः सिद्धिस्थानमिति। इत्येवं स्थानार्थानध्यायानुक्त्वा अध्यायार्थमाह-स्वे स्वे इत्यादि। स्वे स्वे स्थाने तथा स्वे स्वे अध्यायेऽध्यायार्थः तन्त्रञ्चासु समाप्यत इति ; आसु समाप्तासु तन्त्रं समाप्यत इत्यर्थः। 'चाध्यायार्थः' इति चकारो भिन्नकमे, तेन अध्यायार्थश्चाध्यायान्ते तथा स्थानार्थश्च स्थानान्ते कृतसंग्रहः, यद्यपि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204