Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1189
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७८ चरक-संहिता। [ अर्थेदशमहामूलीयः स्नेहनस्वेदनाध्यायावभौ यश्चोपकल्पनः । चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः॥ कियन्तःशिरसीयश्च त्रिशोफाष्टोदरादिको । रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम् ॥ अष्टौनिन्दितसंख्यातस्तथा लनतर्पणौ । विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः ॥ यजःपुरुषसंख्यातो भद्रकाप्यानपानिको। विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः॥ दशप्राणायतनिकास्तथार्थदशमलिकः । द्वावेतौ प्राणदेहार्थों प्रोक्तो वेद्यगुणाश्रयो । औषधस्वस्थनिर्देश-कल्पनारोगयोजनाः। चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः ॥ द्वौ चान्त्यौ संग्रहाध्यायाविति त्रिशकमर्थवत् । श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम् ॥ चतुष्काणां महार्थानां स्थानेऽस्मिन संग्रहः कृतः । श्लोकार्थः संग्रहार्थश्च श्लोकस्थानमतः स्मृतम् ॥ २१ ॥ दीर्घञ्जीव इत्यादिना द्वौ चान्तौ संग्रहाध्यायावित्यन्तेन त्रिंशदध्यायं श्लोकस्थानं समुद्दिष्टम् । अस्य तन्त्रस्य शिरो मस्तकम्। अस्मिन् स्थाने चतुष्काणां सप्तानां महार्थानां संग्रहः कृत इति श्लोकः, श्लोक सङ्घाते इत्यनुदात्तेत् भ्वादिः । तेन श्लोकार्थः संग्रहार्थः सङ्घार्थ इत्यतः श्लोकस्थानं संघातस्थानं संग्रहस्थानमित्येकोऽर्थः ॥२१॥ इत्यादी देहशब्देनौजोऽभिधीयते। शिरः शुभमित्यत्र शिर इव शिरः। श्लोकार्थ इत्यादौ श्लोकार्थः संग्रहार्थ इति, चकारात् सूत्रस्थानोक्तसूत्रणादिकम्, यथा-"सूत्रणात् सूचनाच्चैव धारणादर्थसन्ततः। सूत्रस्थानं समुद्दि टम् इत्येतदपि गृहीतं भवति । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204