Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। । अर्थेदशमहामूलीयः तस्यायुर्वेदस्याङ्गान्यष्टौ तद् यथा -कायचिकित्सा शालाक्यं शल्यापहत्तकं विषगरवैरोधिकप्रशमनं भूतविद्या कौमारभृत्यं रसायनानि वाजीकरणमिति ॥ १५ ॥ सदसत्रख्यातिर्वाधावाधात् । प्रागेव यत् सत् तदेव कारणत उत्पद्यते रूपविशेषेणेत्यसत् । तस्य ख्यातियथा वीजं सत् तस्माज्जातोऽङ्कुरो नाति काले ततोऽसनिति ख्यायते। कस्मात् ? बाधाबाधात् बाधस्याबाधात् । बाधाभावाच । सत उत्पत्तिख्यातेबोधादसत उत्पत्तिख्यातेरवाधात् । सदेव कारणत उत्पद्यते इति ख्यातेरवाधादिति ।।१३।१४ ॥ गङ्गाधरः--इत्येवमायुर्वेदस्य शाश्वतत्वमुपदिश्य कति चास्याङ्गानीति प्रश्नस्योत्तरमाह-तस्य आयुर्वेदस्येत्यादि। कायचिकित्सेति कायस्यान्तरग्नेश्चिकित्सा। सुश्रुते तु-कायचिकित्सा नाम साङ्गसंमृतानां व्याधीनां ज्वरातिसार-रक्तपित्तशोषोन्मादापस्मार कुष्ठ-मेहादीनामुपशमनार्थमिति ॥०॥ शालाक्यमिति शलाका नेत्रपटलवेधार्थ शस्त्रविशेषः, किंवा नेत्ररोगशमनार्थ भेषजविशेषोऽञ्जनशलाका तदुपलक्षितभेषजमधिकृत्योद्धजत्रुगतानां रोगाणामुपशान्तार्थम् । सुश्रुतेऽप्युक्तम् । शालाक्यं नाम---ऊद्ध जत्रुगतानां रोगाणां श्रवणनयनवदनघ्राणादिसंश्रितानामुपशमनार्थमिति ॥०॥ शल्यापहत्त कमिति शल्य गतौ शल्यं कण्टकादिकं तस्य अपहरिमधिकृत्य व्रणादिचिकित्सितम् । सुश्रुतेऽप्युक्तम्-तत्र शल्यं नाम विविधतृणकाष्ठपापाणपांशुलोहलोष्ट्रास्थिबालनखपूयास्रावान्तर्गर्भशल्योद्वरणार्थ यत्रशस्त्रक्षाराग्निप्रणिधानत्रणविनिश्चयार्थञ्चेति ॥॥ विषेत्यादि। विष-गर-वैरोधिकप्रशमनमिति-विपं स्थावरजङ्गममानसं, गरः संयोगजविषं, वैरोधिकं विरोधे सति यद दुष्टं विडात्तवनखादिभिः कृत्रिमं स्त्रीशत्रप्रभृतिकम् ; तेषां प्रशमनमगदतन्त्रं नाम चिकित्सितम्। सुश्रुते चोक्तम्-अगदतन्त्रं नाम सर्पकीटलूताश्चिकमूषिकादिदष्टविषव्यञ्जनार्थ विविधविषसंयोगविषोपहतोपशमनार्थमिति ॥॥ भूत विद्योति। भूता देवासुरादयस्तेषां ज्ञानार्था प्रशमनार्था च विद्या चक्रपाणिः-सम्प्रति कानि चेत्यादिप्रश्नोत्तरं तस्येत्यादि। कायस्यान्तरग्नेश्चिकित्सा, पटलवेधशलाकाप्रधानमङ्गं शालाक्यम्, गरः कालान्तरप्रकोपि विपम्, वैरोधिकं संयोगविरुद्धम्, भूतानां राक्षसादीनां ज्ञानार्था प्रशमार्था च विद्या भूतविद्या, कुमारभरणमधिकृत्य कौमार भृत्यम् ॥ १५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204