Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०श अध्यायः सूत्रस्थानम् ।
११७३ स्थानां धम्मप्रकाशिनां* वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने यः प्रयत्नवान् भवति। यच्चायुर्वेदोक्तमध्यायमनुध्यायति वेदयत्यनुविधीयते वा सोऽस्य परो धर्मः। या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थानामवाप्तिरात्मरक्षणञ्च+, या च स्वपरिगृहीतानां प्राणिनामातुर्यादात्मरक्षा+ सोऽस्यार्थः। यत् पुनरस्य च विद्वग्रहणं यशःशरण्यत्वञ्च, या च सम्मानशुश्रूषा यच्चेष्टानां च मनुना-अम्बष्ठानां चिकित्सितमिति)। अथ कथमायुर्वेदाध्ययनेन धर्मार्थकामपरिग्रहो भवतीति अत उच्यते--तत्रत्यादि। अध्यात्मविदां पुरुषाणां तथा धर्म पथस्थानां धार्मिकाणां तथा धर्म प्रकाशिनां वा पुरुषाणां मात्रादिगुरुजनस्य वा विकारप्रशमने यत् प्रयत्नवान् भवति भिषक् सोऽस्य भिषज आयुर्वेदाध्ययनस्य फलं परो धर्म आयुवेदोक्त क्रियाकरणानिष्पद्यते । यच्चायु. वर्वेदस्याध्यायमनुध्यायति वेदयति परान् ज्ञापयति अनुविधीयते तत्तदध्यायः स्यानुरूपेण विधानं रचनाकरणं वा सोऽप्यस्यायुवेदाध्ययनस्य परो धर्मः ।
अथ अर्थपरिग्रहमाह-या पुनरित्यादि। ईश्वराणां राश वसुमतां धनान्यानां कृतचिकित्सानां सकाशात् या बर्थानामव्याप्तिः सुखोपभोगार्थ भवति, सोऽस्यायुर्वेदाध्ययनस्यार्थः फलम् । एवमात्मरक्षणश्च चिकित्सया यत् सोऽप्यर्थः। तथा स्वपरिगृहीतानां स्वेन प्रतिपालितानां प्राणिनामातुर्याद्रोगादात्मनो या च रक्षा सोऽप्यस्यार्थः फलमिति । अथ कामं दर्शआरक्षणमात्मादिरक्षणम्, स्वपरिगृहीतानामिति भृत्यादीनाम्, विद्वदग्रहणमेव यशः, विद्वदुपादेयताजन्यं यश इत्यर्थः, इष्टानामिति वनितादीनाम् ॥ १६ ॥ * धर्मप्रकाशानामिति पाठान्तरम् ।
# आरक्षणमिति वा पाठः। * आत्मरक्षेत्यत्र आरक्षेति क्वचित् पाठः ।
$ श्रीमद्गङ्गाधरस्य स्वीयहस्तलिखितादर्शपुस्तके "स्वोढ़ायाम्" इत्यादि--"अम्बष्टानां चिकित्सितम्” इत्यन्तं स्थानं केनापि हरितालेन प्रच्छाद्य अस्पाक्षरेण तत्रैका अभिनवटीका विरचिता, मुद्रितपुस्तके च तथैव दृश्यते। अतोऽस्माभिरपि अनन्यगतिकैः सैव टीका मुद्राङ्किता। परन्तु अष्टमाध्यायोक्तगङ्गाधरवचनेन एतत्स्थानस्थवचनस्य परस्परविरोधात् एषा टीका नैव सङ्गच्छते।
For Private and Personal Use Only

Page Navigation
1 ... 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204