Book Title: Charak Samhita Part 01
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६० चरक-संहिता। । अर्थेदशमहामृलीयः क्षणमुहूर्तादिवसात् त्रिपञ्चदशद्वादशाहात् पक्षात् मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यते । तत्र स्वभावः प्रवृत्ते. रुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः । इत्यायुषः प्रमाणम् । अतो विपरीतमप्रमाणमरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणाप्रमाणमायुर्वेदे ॥१२ प्रयोजनश्चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकार आह-अयमित्यादि। अयं पुमानस्मादियन्मानात् क्षणान्मुहर्ताद्वा दिवसाद्वा यहात् पञ्चाहात् दशाहात् द्वादशाहाद्वा पक्षान्मासात् संवत्सराद्वा स्वभावं मरणमापत्स्यते, इत्येवं प्रमाणमायुषः स्वार्थादिविकृतिलक्षणैरकारणैरुपलभ्यते इति । ततस्वभावमाह-तत्रेत्यादि। स्वभावः प्रवृत्त्युपरमः मरणमनित्यता निरोध इत्येकोऽर्थः पर्यायशब्दात्। इत्यायुषः प्रमाणमतो विषय्ययेण यद्वक्ष्यते मरिष्यति जह्यादित्यादिमानं न कालप्रमाणं तदायुपोऽप्रमाणमित्येवमायुर्वेदेऽरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्यायुषः प्रमाणाप्रमाणमुपदिष्टमिति ॥१२॥ ___ गङ्गाधरः-अथ किमर्थमायुर्वेद इति प्रश्नस्योत्तरमाह-प्रयोजनञ्चेत्यादि । अस्यायुर्वेदस्य प्रयोजनं स्वस्थस्य स्वास्थ्यरक्षणं धातुसाम्यरक्षणमातुरस्य व्याधिप्रशमनं धातुवैषम्यप्रशमनं धातुसाम्यकरणमिति ॥ १३ ॥ वाति दिवानिशम्" इत्यादि । इन्द्रियविकृतियथा -- "यश्च पश्यत्यदृश्यान्' इत्यादि : मनोविकृतियथा-"यैः पुरा विन्दते भावैः समेतैः परमां रतिम् । तैरेवारममाणस्य ग्लास्नोमरणमादिशेत्" इति ; बुद्धिविकृतिर्यथा-"बुद्धिर्बलमहेतुकम्" इत्यादि ; चेष्टाविकृतियथा-विकर्षनिव यः पादौ मृत्यु स परिधावति' इत्यादि ; आदिग्रहणात् परिजनविकृत्यादयो ज्ञेयाः ; अत्र रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षादृद्ध रिष्टजन्यमरणभाषात् ; अतो विपरीतमप्रमाणम्, रिष्टहीनं न निश्चितप्रमाणमायुररिष्टाधिकार इत्यर्थः ; अन्यदपि चायुःप्रमाणज्ञानमाह-देहप्रकृतीत्यादि। देहश्च प्रकृतिश्च लक्षणञ्च देहप्रकृतिलक्षणम् ; तत्र देहमधिकृत्यायुःप्रमाणं यथा"सवैः सारैरुपेताः” इत्यारभ्य यावत् 'चिरं जीविनो भवन्ति" इति , प्रकृतितो यथा“इलैष्मिका बलवन्तो वसुमन्तश्च भवन्ति" इति ; लक्षणतो यथा-"आयुष्मतां कुमाराणां लक्षणान्युपदेश्यामः” इत्यादि ; किं वा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणम्, तच्च सर्व सारप्रकृत्यादिलक्षणं बोध्यम् ॥ १२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204